________________
१५७
पचमोशः। सङ्कल्पः-राजन् ! समाश्वसिहि समाश्वसिहि ।
मनः - (समाश्वस्य) अलमस्माकमतः परं जीवितेन ! सङ्कल्प ! चितामारचय । यावदनलप्रवेशेन शोकानलं निर्वापयामि।
(ततः प्रविशति सरस्वती ।) सरस्वती-प्रेषितास्मि भगवत्या विष्णुभक्त्या, यथा सखि ! सरस्वति! गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य वैराग्योत्पत्तिर्भवति, तथा यतस्वेति । तद् भवतु तत्सन्निधिमेवोपसमि । उपसृत्य) वत्स! किमेवं विक्लबोऽसि । ननु विदितपूर्वैव भवता भावानामनित्यता। अधीतानि च त्वयैतिहासिकान्युपाख्यानानि । तथाहि -
निर्वापयामि विनाशयामि । आत्मात्मीयत्वेनाध्यस्तपुत्रकलादिवियोगजन्मा शोकदहन आत्महत्यामपि व्यवसाययतीत्यर्थः । उक्तं च -
"उपलन्धेरनिष्टस्य चित्तं यदभिहन्यते । दुःखात्मा सम्मतः शोको मोहरोदनभावकः ।।"
इति ।
विष्णुभक्तिनियोगान्मनोवैमल्यसम्पादनाय पूर्वमेव समागम्यावसरं प्रतीक्ष्यावस्थिता सरस्वती देवीनियोगमनुस्मरन्ती मनोन्यवसितं विज्ञायायमवसर इति प्रवर्तत इत्याह-ततः प्रविशति सरस्वतीत्यादिना ।
किमेवं विक्लषोऽसीति । "जातस्य हि ध्रुवो मृत्युरि"ति शास्त्रात् निश्रिता खस्वन्त्यदशा जनिमतः । किञ्च शोकसहस्रैरपि कालगृहीतानां न प्रत्यावृत्तिः । अतः फलशून्यं वैकव्यमिति भावः । इतिहाससम्बन्धीन्युपाख्यानानि ऐतिहासिकानि
"चम्चलं धनमपायि शरीरं यौवनं त्रिचतुराणि दिनानि ।
श्रेयसे च यशसे च यतध्वं मृत्युरापतति गच्छति कालः ॥" १. 'विजनावियोगाच्छोक' , पाठः.