________________
प्रबोधचन्द्रोदये सव्याख्ये
विसर्पति विषाविद् दहति सर्वमर्माविधस्तनोति भृशवेदनाः कषति सर्वकाषं वपुः । विलुम्पति विवेकितां हृदि च मोहमुन्मीलयत्यो सति जीवितं प्रसभमेष शोकज्वरः ॥ १२॥ ( इति मूर्च्छितः पतति ।) सङ्कल्पः राजन्! समाश्वसिहि समाश्वसिहि । मनः - ( समाश्वस्य) कथं देवीप्रवृत्तिरपि न मामेवमवस्थं समाश्वासयति ।
सङ्कल्पः -- (सास्रम् ) देव! कुतोऽद्यापि देवीप्रवृत्तिः । यतः श्रुतकुटुम्बव्यसन सञ्जातशोकानलदग्धहृदया हृदयास्फोटं वि
१५६
•
नष्टा ।
मनः - हा प्रिये ! क्वासि । देहि मे प्रतिवचनम् । ननु देवि !
स्वप्नेऽपि देवि ! रमसे न विना मया त्वं स्वापे त्वया विरहितो मृतवद् भवामि । दुररीकृतासि विधिदुर्ललितैस्तथापि
जीवत्यहो तु मन इत्यसको दुरन्ताः ॥ १३ ॥ (पुनर्मूर्च्छति ।)
मर्माविधः मर्मभेदकः । कपति पेषयति । विलुम्पति विवेकिताम् अपमार्ष्टि बुद्धिमत्ताम् ॥ १२ ॥
विधिदुर्ललितैः विधिविलसितैः । असवः प्राणाः । दुरन्ता दुर्वि -
नाशाः ।
" नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । " इति न्यायात् प्रवृत्त्या विना नास्त्येव मन इत्यर्थः ॥ १३ ॥