________________
पबमोहः।
(ततः प्रविशति मनः सहल्पम ।) मनः - (सासम्) हा पुत्रकाः! क गताः स्थ । दत्त मे प्रतिवचनम् । भोः कुमारकाः! रागद्वेषमदमात्सर्यादयः! परिष्वजवं माम् । सीदन्ति ममाङ्गानि । हा न कश्चिद वृद्धं मामनाथं सम्भावयति । कगता असूयादयः कन्यकाः । आशातृष्णाहिंसादयो वा स्नुषाः । अथ ता अपि मन्दभा. ग्यस्य मे समकालमेव दैवहतकेनापहृताः । (सवैक्लव्यम्)
"मांसखण्डं द्विधा मित्रमपानोद्गारधूपितम् । यदि नाच्छाद्यते वस्त्रैर्मक्षिकाणां महोत्सवः ।। तमाश्वर्भनिभं दृष्टं वर्षबुबुदसबिमस् । नाशप्रायं सुखाद्धीनं नाशोत्तरमैभावगम् ॥ प्रामणस्य च देहोऽयं नोपभोगाय कस्पते ।
इह क्लेशाय महते प्रेत्यानन्त्यसुखाय च ॥" इत्येवमादिका संसारासारावभासिकां सरस्वती प्रेषयामः नियोजयाम ह. त्यर्थः ।
प्रवेशक इति । अङ्गद्यस्यान्ते शेषार्थस्योपसूचनादनुदात्तोक्त्या नीपपात्रप्रयोजितः प्रवेशक इति नाट्यविदः ।
एवं तावदात्मसन्तानविनाशसान्द्रव्यसनसन्दोहसागरसम्पातसमुद्धिमम् अप्राप्तशरणम् अन्त्यावस्थां गन्तुं कृतव्यवसायं तावन्मन इत्युक्तम् । इदानीं तस्य वैराग्योत्पत्तिप्रकारं कथयितुं मनसश्चापल्यं दर्शयति-तता प्रविशति मन इत्यादिना ।
वृद्धं मामिति । अनादेः संसारस्य साधकं हि मनः । तेनाविधयानादिसिद्धनिजरूपत्वाद् वृद्धमित्यर्थः । स्नुषा पुत्रमार्या ।
१. 'भ्रमतं दृष्ट्वा व' ख. पाठा. २. 'पी' स. ग. पा.. ३. 'महापगम्' ग. पा. ४. 'का संसारागराभाविक क. पा.
v