________________
प्रबोधचन्द्रोदये सव्याख्ये अनादरपरो विद्वानहमानः स्थिरां श्रियम् ।
अमेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ॥ ११ ॥ अथ मनसः को वृत्तान्तः ।
श्रद्धा देवि ! तेनापि पुत्रपौत्रादिव्यसनजनितशोकावेगेन जीवोत्सर्गायाध्यवसितम् ।
विष्णुभक्तिः—(स्मितं कृत्वा) यद्येवं स्यात्, सर्व एव वयं कृतकृत्या भवामः । पुरुषश्च परां निर्वृतिमापद्येत । किन्तु कुतस्तस्य दुरात्मनो जीवत्यागः ।
श्रद्धा - एवं देव्यां प्रबोधोदयाय गृहीतसङ्कल्पायामचिरादेव शरीरेणैव न भविष्यति । विष्णुभक्तिः वैयासिकी सरस्वतीं प्रेषयामः ।
तद् भवतु । अस्य वैराग्योत्पत्तये
( इति निष्क्रान्ते ।) प्रवेशकः ।
१५४
-
अत्रैव नीतिशास्त्रं प्रमाणयति - अनादरपर इति । क्षुद्रोऽयं वराकः किं करिष्यतीत्येवमवधीरितोऽग्न्यादिरपि । स्थिरां चिरकालस्थायिनीं श्रियमन्विच्छन् नाल्पानप्यग्न्यादीन् परिशेषयेदित्यर्थः ॥ ११ ॥
स्वक्कतव्यसनफलं स्वेनैव भुज्यते, समीचीनं जातमित्यभिप्रायेण स्मितं कृत्वेत्युक्तम् । यद्येवमित्युरुयत्नसाध्यतां दर्शयति । कृतकृत्या भवाम इति । शान्त्यादयश्चरितार्था इत्यर्थः । पुरुषः क्षेत्रज्ञः । परेण परमानन्दस्वरूपेण परमात्मनैकत्वं प्राप्नोतीत्यर्थः । किंत्विति । प्रायेण पापिष्ठाः पुरुषार्थविरोधिनो न नश्यन्तीत्यर्थः । अथवा केनोपायेन साध्योऽयमर्थ इत्येवं निरूपयति - किन्त्वित्यादिना । ।
एवं देव्यामिति । देव्याः प्रसादादसाध्यं नास्त्येवेत्यर्थः । विचिन्त्य वैराग्यमेव साधनमिति निश्चित्याह - तद् भवस्विन्यादिना । व्यासेनोक्ता वाणी वैयासिकी ।