________________
पचमोऽङ्कः । विष्णुभक्तिः- ततस्ततः ।
श्रद्धा- ततो वस्तुविचारेण कामो हतः । क्षमया कोधपारुष्यहिंसादयो निपातिताः । सन्तोषेण लोभतृष्णादैन्यानृतपैशुन्यवास्तेयासत्प्रतिग्रहादयो निगृहीताः। अनसूयया मात्सर्य जितम् । परोत्कर्षभावनया मदो निषूदितः ।
विष्णुभक्तिः - (सहर्षम् ) साधु साधु सम्पन्नम् । अथ महामोहस्य को वृत्तान्तः।
श्रद्धा-देवि! महामोहोऽपि योगोपसर्गः सह न ज्ञायते क निलीनस्तिष्ठतीति ।।
विष्णुभक्तिः -अस्ति तर्हि महाननर्थशेषः । परिहरणीयश्चासौ । यतःनास्ति । ततः प्रशिथिलमूलास्तर्कामासाः प्रबलन्यायानुगृहीतवैदिकप्रमाणविरोधे तदागमपृष्ठमेव प्रतिपद्यन्त इत्यर्थः ।। अथ द्वन्द्वयुद्धप्रकारः प्रदर्श्यते-तलो वस्तुविचारेणेत्यादिना ।
"मारितोत्तानमण्डूकपाटितोदरसन्निभे ।
___ क्लेदिनि स्त्रीव्रणे सक्तिरकृमः कस्य जायते ।।" इत्येवमादिप्रकारेण वस्तुतत्त्वविचारण कामो हतः । निमलित इत्यर्थः । परस्योत्कर्षः परोत्कर्षः, तस्य भावना प्रतिपत्तिः, तया विद्यादिनिमित्तमदो निवर्तित ।
- "उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ।" इति न्यायादित्यर्थः ।
योगश्चित्तसमाधानम् । योगस्योपसर्गाः परिपन्थिनः कामक्रोधलोभमोहमदमात्सर्यादयः । निलीनः तिरोहितः ।
ननु मोहस्तिरोहितश्चेत्तथा तिष्ठतु, को विरोध इति तत्राह-परिहरणीयबेति । यथा खलु अदृश्यमानोऽपिपराक्षसः करोत्येवानर्थम्, एवमयमपि मोहोऽतः समूलकुलमुच्छेद्य एवेत्यर्थः ।
१. 'दताः।र' ग. पाठः. १. 'लमु' ख. पा..