________________
१.२
प्रबोधचन्द्रोदये सव्याख्ये शरदलितविशीर्णोत्तुङ्गमातङ्गशैल
स्खलितरयविशीर्णच्छत्रहंसावतंसाः॥ १० ॥ एवमतिमहति दारुणे सङ्ग्रामे परपक्षविरोधितया पाषण्डागमैरग्रेसरीकृतं लोकायतं तन्त्रमन्योन्यसैन्यविमर्विनष्टम् । अनन्तरं पाषण्डागमा निर्मूलतया सदागमार्णवप्रवाहेण पर्यस्ताः । सौगतास्तावत् सिन्धुगान्धारपारसीकमगधाङ्गबङ्गकलिङ्गादीन् म्लेच्छप्रायान् प्रदेशान् प्रविष्टाः । पाषण्डदिगम्बरकापालिकादयस्तु पानरबहुलेषु पाञ्चालमालवाभीरानर्तसागरानूपेषु निगूढं सञ्चरन्ति । न्यायानुगतया च मीमांस. या प्रगाढप्रहारजर्जरीकृता नास्तिकतर्कास्तेषामेवागमानामनुपथं प्रयाताः। विशीर्णाश्च ते उत्तुशाश्च मातशाश्व हस्तिनः त एव शैलाः तेभ्यः शैलेभ्यः स्खलितरयेभ्यो विगतवेगेभ्यो विशीर्णानि पतितानि छत्राण्येव हंसवत् सितत्वाद्धंसाः त एवावतंसः शेखरभूमगं यासां सवन्तीनां तास्तयोताः ॥ १० ॥
अन्योन्यसैन्यविमनिष्टमिति । अयमर्थः - देह एवात्मेति पक्षस्तावदागमिकैः कुत्सित एव नश्वरत्वात्, पाषण्डैरागनैरपि निन्दितः । एवं सर्वनिरस्तत्वादशरणः स्वयमेव विनष्ट इति । निर्मूलतयेति । मूलभूतप्रमाणाभावात् सरित्परिसरंतरव इव अपौरुलेयतया निर्दिष्ट सदागमसमुद्रसन्दोहैः पर्यस्ता विनष्टा इत्यर्थः । कापालिकादय इति । आदिशब्देन तलिङ्गग्रहणमन्तरेण तद्धर्मानुष्ठायिनो गृह्यन्ते । पामरा असंस्कृत. प्राणिनः । ननु पाषण्डानां यद्यप्यागमदौर्बल्यं, तथापि तर्कशूरत्वात् तन्निराकरणं कथमिति चेत् तत्राह-न्यायानुगतयेत्यादिना । अयमर्थः -- प्रमाणानुग्राहकः खलु तकः । स चानुग्राह्यं प्रमाणं विना स्वयमेव कश्चिदर्य साधयितुं दूषयितुं वा न समर्थः । अनुग्राह्यं प्रमाणं च पाषण्डतर्काणां
१. 'रैरपि', २. 'सरव इव' ग. पाठ. ३. 'पमयुक्तमि' स. प. पाठा,