________________
१५०
प्रबोधचन्द्रोदये सव्याख्ये ज्योतिः शान्तमनन्तमद्वयमजं तत्तद्गुणोन्मीलनाद
ब्रह्मेत्यच्युत इत्युमापतिरिति प्रस्तूयते नैकधा । निरसनाय च साङ्गत्यं सञ्जाघटीतीत्यर्थः । नन्वानमार्थः सर्वैस्तमःप्रकाशपद्विरुद्धत्वेन स्वीकृतः । तथाहि-नैयायिकास्तावत् "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानि षोडश पदार्था' इति प्रतिपन्नाः । तेषु च पदार्थेषु द्वादश. पदार्थानां प्रमेयभूतानां प्राधान्येन पुरुषाथविरोधित्वात् साधर्म्यवैध→परिभावनया तत्त्वज्ञानाद् निःश्रेयसाधिगम इति च वर्णयाम्बभूवुः । तथा वैशेषिकैरपि द्रव्यगुणकर्भसामान्यविशेषसमवायाः षडेव पदार्थाः । तेषां चेश्वरानुगृहीतेन साधर्मवैधर्म्यपरिभावनाजनितेन तत्त्वज्ञानेनापवर्ग इति निरणायि । साङ्यास्तु-ज्ञानेन्द्रियकर्मेन्द्रियभूततन्मात्रमहाभूतमनोहङ्कारमहदव्यक्तपुरुषा इति पञ्चविंशतिः तत्त्वानि । प्रकृतिपुरुषविवेकविज्ञानेन च मुक्तिरित्येवं व्यवस्थिताः। तथा भागवतैरपि वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धलक्षणव्यूहचतुटयं तत्वमिति परिकल्प्य वासुदेवः परा शक्तिः परमात्मनोऽपृथग्भूर्ता तदा त्मकं जगदित्येवमणि । तथा शैवाश्च कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः । आत्मा चैतन्यम् अज्ञानं बन्धः । परमेश्वरस्तु सकलनियन्ता अन्य एव । तेन च मिन्नाभिन्नं जगत् इत्येवं निश्चिताः । सौरा अप्यध्यात्माधिदैवतभावेन विभक्तसवितजीवयोरभेदबोक्काजपाख्यमन्त्रमहावाक्यगम्यं सावित्रं तत्वनित्यभ्युपगताः । वैयाकरणानां स्फोटविवर्त जगत् , परमार्थ
स्तु स्फोट एव तत्त्वमिति भनीषा । प्राभाकराणा तु द्रव्यगुगकर्मसामान्यविशेषशक्तिपारतन्त्र्यनियोगा इत्यष्टौ पदार्थाः परिक्लप्ताः । द्रव्यगुणकर्मसामान्यात्मकं तत्त्वचतुष्टयमवेति भाट्टमतम् । इत्येवं विरोधात् कथं साङ्गत्यं घटत इति चेत्, तत्राह-आगमानां तु तत्त्वमित्यादिन।।
___ अविरोवमेव दशेयति-तथाहि ज्योतिरित्यादिना । ज्योति. श्चियनम् । शन्तं सर्वोपद्रवहितम् । अनन्तं दिगदेशकालपस्सुपरिच्छेदशयम् । अन्यनिति । सजातीयविजातीयस्वगतभेदरहित जीवेश्वरादिभेदं
१. 'नम' क. ग. ह. पा. २. 'त' ख. पा०:. ३. 'याः पर' क. पाठ:. ४. 'ध: स्वात्मैव सर्वभूतानामेक एव परमेश्वरः' ख. घ. १. पाठ: ५. 'णसा', .. 'गसमवाया' . पाठ..