________________
पञ्चमोऽयः।
११९ शान्तिः - अये! कथं पुनः स्वभावप्रतिहन्द्रिनामाग. मानां तर्काणां च समवायः सम्पन्नः । श्रद्धा-पुत्रि!
समानान्वयजातानां परस्परविरोधिनाम् ।
परैः प्रत्यभिभूतानां प्रसूते सङ्गतिः श्रियम् ॥ ८ ॥ तेन वेदप्रसूतानां तेषामवान्तरविरोधेऽपि वेदसंरक्षणाय नास्तिकपक्षप्रतिक्षेपणाय च शास्त्राणां साहित्यमेव । आगमानां तु तत्त्वं विचारयतामविरोध एव । तथाहिनिवहैः । दिश इत्युपलक्षणार्थम् । धर्मादितत्तत्पदार्थजातं तत्तदज्ञाननिरसनेन सर्वं प्रद्योतयन्तीत्यर्थः । मीमांसा महीकृतविचारणा । धर्मेन्दुकान्तानना धर्म एवेन्दुवत् कान्तमाननं यस्याः सा धर्मेन्दुकान्तानना । यीत्रिणयना सर्वाविभासकवेदत्रयनत्रत्यर्थः । कात्यायनीव भुवनकण्टकभूतमुम्भाद्य सुरनिर्वापणाय प्रवृत्ता भक्तजनानुजिघृक्षया गृहीतविग्रहा भगवती दुर्गव समर. सम्भ्रमसमुत्सुका भारत्याः पुरतः प्रादृश्यतेत्यर्थः । ७ ॥
ननु निसर्गत एव परस्परविरुद्धानां वैशेषिक.दित त्राणामेकार्थसमवायः कथमिति चोदयति --- अये कथं पुनरित्यादिना ।
"परस्परविरोधे हि वयं पञ्चैव ते शतम् ।
परैः सह विरोधे तु वयं पञ्चोत्तरं शतम् ।।" इति न्यायात् प्रसिद्धा खलु लोके प्रबलविराधे मिथो विरुद्धानामप्ये कारिमित्रतेति न्यायावष्टम्भेन उत्तरमाह - समानान्ययेत्यादिना । प्रसूते सङ्गतिः श्रियमिति । स्वान्वयविनाशप्राप्तावन्योन्यसमवायः कार्यसिद्धि तनोतीत्यर्थः ॥ ८ ॥
तेन वेदप्रसूतानामिति । यद्यपि अवान्तरकलहांकुलता, तथाप्यागमिकत्वात् सर्वेषामागमार्थसंरक्षणस्यावश्यापेक्षणीयत्वात् नास्तिकपक्ष
१. 'ति । यस्मादेवं तस्मात् य' क. स. घ. पाट:. २. 'हकोलारलता' ख. घ. पाठः.