________________
१४८
प्रबोधचन्द्रोदये सव्याख्ये विष्णुभक्तिः- ततस्ततः।
श्रद्धा-ततो देवि ! वैष्णवशैवसौरादयो देव्याः सकाशमागताः। विष्णुभक्तिः- ततस्ततः ।
श्रद्धा - तदनन्तरं च - साङ्ख्यन्यायकणादभाषितमहाभाष्यादिशास्त्रैर्वृता
स्फूर्जन्न्यायसहस्रबाहुनिवहैरुद्द्योतयन्ती दिशः । मीमांसा समरोत्सुकाविरभवद्धर्मेन्दुकान्तानना
वाग्देव्याः पुरतस्त्रयीत्रिणयना कात्यायनीवापरा ॥७॥ महाभारतादिः । आदिशब्देन काव्यनाटकादयो गृह्यन्ते एभियथोक्तैरुच्छ्रितश्रीरुपचितप्रभासा सर्वतः प्रद्योतमानेत्यर्थः पद्मकरा पङ्केरुहोदरसरससुन्दरकरपल्लवेत्यर्थः । सहसा तत्क्षणाव ! आविरासीद् आवर्व नूवे यर्थः । एवं पाषण्डागमैरसतर्कसहित दिकप्रमाणैश्च सह सत्तकैरन्योन्यवादकलहकोलाहल कमुद्यते सत्यप्रतिभादिपरिहारेणाभितः प्रमाणयुक्यादिकं स्फोरयन्ती समनुजिघृक्षया सरस्वती सम्बभूवेत्यर्थः । ननु सौगताद्यागमानामपि सर. स्वतीरूपत्वात् कथमत्रैवाविर्भाव इति चेत् , सत्यं, किन्तु पुरुषार्थानुपयोगितयानर्थहेतुन्वाच्च पुलाकादिवदुपक्षणीयं स्यादिति न विरोधः॥ ६ ॥
वैष्णदागमाः श्रीसात्वतपञ्चरात्रप्रभृतयः । शैवागमाः श्रीमायावैभवकालोत्तरप्रभृतयः । सौरागमाः सौरतत्त्वनिवेदकसौरसंहिताः । आदिशब्देन पञ्चप्रश्नरेवन्तकल्पप्रभृतयः । त एते सर्व एव उपादेयांशमादायागमाः समागता इत्यर्थः ।
साङ्ख्यं कापिलं दर्शनम् । न्यायमाक्षपादिकं दर्शनं, नैयायिकमित्यर्थः । कणादभाषितं वैशेषिकम् । महाभाप्यं व्याकरणशास्त्रम् । आदि. शब्देन कौमारसारस्वतभोजव्याकरणादयो गृह्यन्ते । स्फून्न्यिायेति । सहस्राधिकरणनिर्णीतभास्वरन्यायानां सहस्रा (१) एव बाहवो रश्मयः तेषां
1. 'रेत्यर्थः' म. घ. पा.