SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४६ प्रदोषचन्द्रोदये सव्याख्ये नो चेत् सन्तु कृपाणदारितभवत्प्रत्यङ्गधाराक्षर द्रक्तस्फीतविदीर्णवक्त्रविसरत्फेटकारिणः फेरवाः ॥५॥ विष्णुभक्तिः- ततस्ततः। श्रद्धा - ततो देवि! विकटललाटतटताण्डवितभ्रुकुटिना क्रुद्धेन महामोहेन अनुभवत्वस्य दुर्नयपरिपाकस्य फलं विवेकहतक इत्यभिधाय स्वयं पाषण्डागमाः पाषण्डतर्कशास्त्रैः समं समराय प्रथमं समुद्योजिताः । अत्रान्तरे अस्माकमपि सैन्यशिरसि - निर्देशोऽनुपपन्नः, तथापि प्रतिपत्तिसौकर्यार्थं सालग्रामसवितृमण्डलहृदयपुण्डरीकाविमुक्तक्षेत्रद्वारवतीपुरुषोत्तमायतन काञ्चीपद्मनाभदेवदेवेशक्षेत्रादिस्थानान्याश्रितानि । तेन च नैयायिकन यथादेशमादेशमादाय सत्वरं मोहमुपसृत्य अरे मोहहतक! यदि ते जिजीविषा. तद्यत्र न स्थातव्यम् । सद्भिर्यान्यायतनान्याश्रितानि तानि त्वया नाश्रयणीयानि : आश्रय शीघ्र दुर्जनानेव । नो चेदस्मत्कृपाणधारैव ते शिरस्सारमवगच्छतीत्यतद्राज्ञो विवेकस्य वचनमित्युक्तो मोह इत्यर्थः । फेरवाः सृगालाः । फेटकारिणः फेट इत्यनुकरणशब्दः, तं कुर्वन्तीत्यर्थः ॥ ५ ॥ अनुभवत्वस्य दुर्नयपरिपाकस्य फलं विवेकहतक इति । अपौरुषेयतया निर्दिष्टाद्वैतागममहावाक्यश्रव गजनितं शमदमाद्यनेकसाधनैर्दुःखेनानीयमानत्वाद् दुर्नयं सम्यग् ज्ञानं तस्य परिपाकः निविचिकित्सतया साक्षात्करणं त य फलं सनिदानाविद्याद्यनर्थनिवृत्तिः तमनुभव त्वति । स्वयमप्यविद्यामूलो विलयं गच्छेद् इत्यर्थः । पाषण्डागमा नाम बौद्धाद्यागमाः । तत्र बौद्धागमस्तावत् 'चैत्यं वन्देत स्वर्गकाम' इत्यादिसंसारविषयफलमधिकृत्य प्रवृत्तः । मोक्षविषयस्तु – क्षणिकान्येव विज्ञानानि, प्रत्यभिज्ञा च भ्रान्तिः, सैवेयं ज्वालतिवत् । स्थायित्वभ्रमेण रागद्वेषादिदोषेरुत्पाद्यमानैः प्रवृत्तिफलकैर्विषयविभ्रमैश्च दूषितानि विज्ञानानि । तेषु च विभ्रमेषु क्षणिकविज्ञानदूषकेषु सर्व क्षणिक सर्व स्वलक्षणं सर्व दुःखं सर्वे
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy