________________
पञ्चमोऽङ्कः ।
अथ तत्र किं वृत्तम् ।
विष्णुभक्तिः
श्रद्धा • यद्देव्याः प्रातिकूल्यमाचरता मुचितम् ।
www.co
extendim
१४५
विष्णुभक्तिः -- तद्विस्तरेणावेदय ।
श्रद्धा आकर्णयतु भगवती । देव्यामादिकेशवायत - नादप कान्तायामेव किञ्चिदुत्सृष्टपाटलिम्नि भगवति भास्वति विजयघोषणाहूयमानाने कवरवीर बहुलसिंहनादवधिरितदिगन्ते प्रबलतरकर्णतालास्फालनोच्चलत्समदकरिकुम्भसिन्दूरसन्ध्यायमानदशदिशि प्रलयजलधरध्यानभीषणरवे तेषामस्माकं च संनद्धे सैन्यसागरे महाराजविवेकेन नैया - किं दर्शनं दौत्ये प्रहितम् । गत्वा च तेनोक्तो महामोह:विष्णोरायतनान्यपास्य सरितां कूलान्यरण्यस्थलीः
पुण्याः पुण्यकृतां मनांसि च भवान् म्लेच्छान् व्रजेत् सा[ नुगः । यत् प्रतिपक्ष्यमाचरतामुचितं योग्यं तत् सम्पादितम् । अन्त्यदशामेव संप्राप्तो मोहः सपरिकर इत्यर्थः ।
उत्सृष्टपाटलिम्नि परित्यक्तनिजरागे सवितरि समाहृतप्रभासे । सन्ध्योपासनाद्यावश्यककर्म करणानन्तरमित्यर्थः । उक्तविशेषण सैन्यसागरे निशिततरप्रमाणतर्क कुलिशशरशतैरन्योन्यकलहकोलाहलं कर्तुमुद्युक्ते सति ईश्वरवादितया तर्कशूरतया च नैयायिकं दर्शनं तावत् प्रेषितमित्याह - नैयायिकं दर्शनमित्यादिना । तत्र नैयायिकदर्शनं नाम 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति सिद्धान्तरहस्यस्थितिः । एवमूरीकृत राद्धान्तोऽसावति निशित तर्कशतक चूर्णपूर्णमुखमुखरो नैयायिकः प्रेषितो विवेकेनेत्यर्थः ।
विष्णोरिति । यद्यांप व्यापनशीलस्य सर्वगतस्य विष्णोरायतन
१. 'प्रतिपक्षमा' ख. घ. पाठः.