________________
१४४
प्रबोधचन्द्रोदये सव्याख्ये __ शान्तिः- किमत्र विचिन्त्यते । ननु भगवती चेत् कृतानुग्रहा, तन्नियतमेव राज्ञो विवेकस्य विजय इति जा नामि। विष्णुभक्तिः- वत्से!
यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यत । कामं तथापि सुहृदामनिष्टाशङ्कि मानसम् ॥ ४ ॥
विशेषतश्च श्रद्धायाश्विरमनागमनं मनास सन्देहमापादयति ।
श्रद्धा- ( उपसृत्य । भगवति ! प्रणमामि ! विष्णुभक्तिः - श्रद्धे ! स्वागतम् । श्रद्धा- देव्याः प्रसादेन ।। शान्तिः- अम्ब! प्रणमामि । श्रद्धा-पुत्रि! मां परिष्वजस्व । शान्तिः -(तथा करोति।)
श्रद्धा - वत्से! देव्या विष्णुभक्तेः प्रसादान्मुनिजनचेतःपदं प्राप्नुहि ।
अभ्युदयः सम्पत् । प्राय इति बाहुल्येनेत्यर्थः । तथाप्यनिष्टाशदि मानसमिति । अपायदर्शी खलु स्नेह इत्यर्थः ॥ ४ ॥
विशेषतश्च श्रद्धायाश्चिरमिति । नैतावंदेव, अन्यच्चाशङ्काकारणमस्ति । यद्यसौ जीवति मे वत्सस्तीसौ श्रद्धा द्रुतमेवास्मत्सकाशमागम्यावेदयिष्यति । तच्च न दृश्यत इति व्याकुलत्वमित्यर्थः ।
एवं श्रद्धागमनं प्रतीक्ष्य व्यवस्थितायां देव्यामागता श्रद्धेत्याह - श्रद्धा उपमृत्येत्यादिना ।
१. 'बता अ' स. प. . पाठ:.