________________
पञ्चमोशः।
१.१ निवेदयिष्यसीति । तदहं देव्याः सकाशं गत्वा सर्वमेतत् समरवृत्तान्तमावेदयामि । (परिक्रम्यावलोक्य च) इदं तच्चक्रतीर्थम् । यत्रासौ संसारसागरोत्तारतरणिकर्णधारो भगवान् हरिः स्वयं प्रतिवसति । (प्रणम्य ) इयं च महामुनिभिरुपास्यमाना भगवती विष्णुभक्तिः शान्त्या सह किमपि मन्त्रयते । यावदुपसर्पामि ( इति परिक्रामति ।)
(ततः प्रविशति विष्णुभक्तिः शान्तिश्च ।) शान्तिः -देवि ! प्रबलचिन्ताकुलहृदयामिव भगवती. मालोकयामि ।
विष्णुभक्तिः-वत्से ! एतस्मिन् वीरवरक्षये महति माम्पराये न जानामि बलवता महामोहेनाभियुक्तस्य वत्सविवेकस्य कीदृशो वृत्तान्त इति, तेन दुःस्थितमिव मे हृदयम् । रजस्तमोभिभूतचित्तानां खलु हिंसारसाभिनिवेशः । केवलसात्त्विकरूप। तु विष्णुभक्तिर्विवेकिभिरुपास्यमाना सालग्रामक्षेत्रे वर्तत इत्यर्थः । इदं तच्चक्रतीर्थमिति ! यत्र देव्या निवासाय निरूपितं स्थानं पूर्व तदुच्यते तदिति। इदमिति प्रत्यक्षतो दृश्यमानं हरिक्षेत्रम् । चक्रतीर्थमिति । सालग्रामक्षेत्रगतगण्डकीसरित्प्रवरपरिसरसान्द्रसलिलसन्दोहाशयस्तटविशेषः चक्रतीर्थमित्युच्यते । कर्णधारो नाविकः । होरेरिति । सालग्रामक्षेत्रवासी स्वामी भजतां पापहरो हरिमूर्तिरुच्यते । यावदुपसमीति । एकान्तमाश्रित्य शान्त्या सह प्रयोजननिरूपणे क्रियमाणेऽपि समरवृत्तान्तमावेदयितुमागता खल्वहं, तस्मादुपसर्पामीत्यर्थः ।
उक्तं तावत् पूर्व वाराणसीक्षेत्रं प्रविष्टो विवेक इति, विष्णुभक्त्या च नियुक्ता श्रद्धा समरवृत्तान्तः साकल्येनावेद्य इति । अधुना तु विवेकः किं कृतः(१)किं वा करिष्यतीत्याकुलाश या विष्णुभक्तिरित्याह -ततः प्रविशति विष्णुभक्तिरित्यादिना ।
साम्पराये युद्धे । अभियुक्तस्य सम्बद्धस्य ।