________________
१४१
प्रबोषचन्द्रोदये सव्याख्ये (सास्रम्) अहो दुर्वारो दारुणः सोदरव्यसनजन्मा शोकानलः। यो विवेकजलधाराशतैरपि न मन्दीक्रियते । तथाहि -
ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिता___ मतो मृत्योः शीर्यत्तृणलघुषु का जन्तुषु कथा । तथाप्युच्चर्बन्धुव्यसनजनितः कोऽपि विषमो
विवेकप्रोन्माथी दहति हृदयं शोकदहनः ।। २ ॥ येन तथा क्रूरप्रकृतिष्वपि भ्रातृषु कामक्रोधादिषु कथाशेषतां गतेषु, निकृन्ततीव मर्माणि देहं शोषयतीव मे।
दहतीवान्तरात्मानं क्रूरः शोकाग्निरुच्छिखः ॥ ३ ॥ (विचिन्त्य ) आदिष्टास्मि देव्या विष्णुभक्त्या यथा-वत्से ! श्रद्धे! अहमत्र हिंसाप्रायममरदर्शनपराङ्मुखी । तेन वागणसीमुत्सृज्य सालग्रामाभिधाने भगवतः क्षेत्रे कञ्चित्कालमतिवाहयामि । त्वं तु यथावृत्तं समरवृत्तान्तमागत्य मे
ध्रुवं ध्वंस इति । चिरकालस्थायित्वेन सम्मताः खलु शैलादयस्तेषामपि नाशो निश्चितः । अन्यत्र का कथेत्यर्थः । तथापीति । एवं दृष्टबीभत्समपि संसारमन्यथीकृत्य व्यामोहयत्ययं बान्धवाभिमान इत्यर्थः ।।२।।
तदेतद् दर्शयति- येन तथा ऋरेत्यादिना । येन बान्धवाभिमानेन । कथाशेषतां गतेषु वार्तामात्रशरीरेषु ।
निकृन्तति छिनत्ति । उच्छिखः उद्वेलं जाज्वल्यमानः ॥ ३ ॥
आस्तां तावदियं चिन्ता, देवीनियोगानुसारेण खलु मया यतनीयमिति निरूपयन्त्याह श्रद्धा-विचिन्त्य भादिष्टास्मीत्यादिना ।