________________
अथ पञ्चमोऽङ्कः।
(*अतःपरं वैराग्योत्पत्तिर्भविष्यति ।)
(ततः प्रविशति श्रद्धा ।) श्रद्धा-(विचिन्त्य) प्रसिद्धः खल्वयं पन्थाः । यतःनिर्दहति कुलमशेषं ज्ञातीनां वैरसम्भवः क्रोधः । वनमिव घनपवनाहततरुवरसङ्घट्टसम्भवो दहनः॥१॥
__ अथ पञ्चमोऽङ्कः। एवं तावत् करुणामैत्रीमुदितोपेक्षावस्तुविचारादिपरिजनपरिवृतो महामोहविजयाय वाराणसी प्रविष्टः परमेश्वरानुगृहीतः पुष्कलो विवेक इ. त्युक्तम् । अधुना तु विवेकसम्पत्त्यनन्तरं लब्धावसरस्य सकलपुरुषार्थसाधनभूतस्य वैराग्यस्यात्पत्तिं वक्तुं प्रक्रमत इत्यङ्कतात्पर्यमाह -- अतः परमिति । भविष्यतीति प्रयोगान्मध्ये किन्चिद् वक्तव्यं विद्यत इति भावः ।
पूर्वमेव विवेकमोहयोर्व्यतिकरवृत्तान्तविविदिषया प्रेषिता देव्या विष्णुभक्त्या श्रद्धा । सा पुनर्देवासुरसङ्ग्रामसदृशसमरसमनन्तरं समरभुवमभिवर्तत इत्याह - ततः प्रविशति श्रद्धेत्यादिना ।
सङ्ग्रामभुवि पतितं गता मुं जननि रहं दृष्ट्वातिदु खिता पुनर्विचिन्त्य दुःख चापलेन किं कृत्यं जनस्वभावः खल्वयमित्यात्मानमाश्वासयन्त्याह - प्रसिद्धः खल्वित्यादिना ।
वैस्स्य सम्भवः उत्पत्तिः । तस्वरयोः सम्यग् घट्टः सङ्घर्षः तस्मात सम्भवतीति सङ्घसम्भवः । एवं दावदहनवद् दावं वैरदहनोऽपि कुलमखिलं दहतीत्यर्थः ॥१॥
* मूले अतःपरं वैराग्योत्पत्तिर्भविष्यति इति वाक्यं पञ्चमाङ्कादावस्तीति व्याख्याप्रन्थेभ्योऽवगम्यते । नदं कांववचनन् । पात्रमुखेन विना एवं स्वातत्र्यंण वक्ष्य. माणार्थसूचनसम्प्रदायाभावात् । तत एव तद्वयाख्यापि चिन्त्या । षष्टाहोपक्रमेऽप्येवमेव द्रष्टव्यम् ।