________________
चतुर्थोऽशः।
११३ सन्तोषः - (सविनयमुपविश्य) एष प्रेष्यजनः । आज्ञाप्यतां देवेन ।
राजा-विदितप्रभावो भवान्, तदलमतिविलम्बेन, लोभं जेतुं वाराणसी प्रति प्रतिष्ठताम् । सन्तोषः - यदाज्ञापयति देवः । सोऽहं - नानामुखं विजयिनं जगतां त्रयाणां
देवद्विजातिवधबन्धनलब्धवृद्धिम् । रक्षोधिनाथमिव दाशरथिः प्रसह्य निर्जित्य लोभमवशं तरसा पिनश्मि ॥ २४ ॥
(इति निष्क्रान्तः ।)
(ततः प्रविशति विनीतवेषः पुरुषः ।) पुरुषः -देव! सम्भृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्तिकावेदितः प्रस्थानसमयः ।
राजा-यद्येवं सेनाप्रस्थापनायादिश्यन्तां सेनापतयः। पुरुषः-यदाज्ञापयति देवः । (इति निष्क्रान्तः।
(नेपथ्ये) भो भोः सैनिकाः!
प्रेष्यो नियोज्यः।
नानामुखमिति । इदं मे स्यादिदं मे स्यादिति सर्वतः समादि. साग्रहगृहीतत्वमिति यत् त्रैलोक्यवर्तिप्राणिनां तदिदं लोभस्य विजयित्वमित्यर्थः । देववधो नाम देवतार्थ सङ्कल्पितदीपनिवेद्यादिप्रत्याख्यानं देवस्वापहरणादि । द्विजातिवधस्तु धनादिग्रहणार्थ स्पष्ट एव । ब्रह्मस्वापहारो वा । एवमादिना लब्धवृद्धिरेव लोभः न तु शंशमीतीत्यर्थः । वृत्तिरिति वा पाठान्तरम् । तदानीं वृत्यर्थमेवं क्रियत इत्यर्थः । यथा खलु दाशरथिः सहबलं दशमुखमपीपिषद्, एवं पिनष्मि तं दुरात्मानं मुष्टिप्रहारेण पादामिहननादिमिः । पिष्वा गतासुं करोमीत्यर्थः ॥२४॥
सेनापतयः वस्तुविचारसन्तोषादयः ।