________________
प्रबोषचन्द्रोदये सन्याख्ये अनुत्पादः श्रेयान् किमु कथय पथ्योऽथ विलयो
विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः ॥ २२ ॥ किश्चमृत्युर्नृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी
त्वामेषा असते परिग्रहमयैर्गुधैर्जगद् ग्रस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः
सन्तोषामृतसागराम्भसि पुनमग्नः सुखं जीवति ॥ २३ ॥ प्रतीहारी- एसो सामी । ता उवसप्पतु महाभाओ।
सन्तोषः- (तथा कृत्वा) जयतु जयतु स्वामी । एष सन्तोषः प्रणमति ।
राजा-इहोपविश्यताम् (इति स्वसन्निधावुपवेशयति ।)
किच इदं तावञ्चिन्त्यम् । इह खलु महता प्रयासेन एकं शतं सहस्रमयुतं वा सुवर्ण लब्धम् । तस्य च गृहयात्रायापनार्थ दुर्व्यसनशीलतया वा व्ययः, नाशस्तु राजचोरादिभिरपहारः, नियतो निश्चितः । उभयथापि वियोगस्यावश्यंभावित्वे सति अनुत्पादोऽनार्जनं श्रेयान् वरं किं वा विनष्टिरित्येतदाह -धनं तावदित्यादिना । कस्तर्हि निर्णय इति तबाह-न त्वनुदय इति । "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायादनार्जनमेव वरमित्यर्थः ।। २२ ॥
मूनि मस्तकरङ्गे स्थित्वान्तको नरीनति । परिगृपन्त इति परिग्रहा विषयास्तन्मयैः । गृध्रवत् भक्षकत्वाद् गृधैः । बोधजलैरिति । ईश्वरप्रसादबहलितशास्त्रश्रवणजनितविवेकविज्ञानजलैः लोभजन्यं रजः तमोमयपरागं प्रथाल्य सदा सन्तोषेण भाव्यमित्यर्थः ॥ २३ ॥
प्रतीहारी । एष स्वामी । तस्मादुपसर्पतु महाभागः ।
, 'एता' घ. पाठ..