________________
चतुर्थोऽः। राजा-क्षमे | अत्रोपविश्यताम् ।
क्षमा - (उपविश्य) आज्ञापयतु देवः किमर्थमाइतो दासजनः।
राजा-क्षमे ! अस्मिन् सक्नामे दुरात्मा कोधस्त्वयों जेतव्यः।
क्षमा-देवस्याज्ञया महामोहमपि जेतुं पर्याप्तास्मि । किं पुनः क्रोधं तदनुचरमात्रम् । तदहमचिरादेव
तं पापकारिणमकारणबाधितारं __ स्वाध्यायदेवपितृयज्ञतपःक्रियाणाम् । क्रोधं स्फुलिङ्गमिव दृष्टिभिरुद्वमन्तं
कात्यायनीव महिषं विनिवार्य हन्मि ॥ १७ ॥ राजा-क्षमे! शृणुमस्तावत् क्रोधविजयोपायम् ।
क्षमा-देव! विज्ञापयामि । क्रुडे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमो
व्याक्रोशे कुशलोक्तिरात्मदुरितोच्छेदोत्सवस्ताडने। धिग् जन्तोरजितात्मनोऽस्य महती दैवादुपेता विपद् ___ दुर्वारेति दयारसाईमनसः क्रोधस्य कुत्रोदयः ॥ १८ ॥ वेकाधीनत्वात् क्षमायास्तदासीत्वमित्यर्थः ।
अकारणबाधितारं, नरकपातव्यतिरेकेण निष्प्रयोजनचेष्टितम् । विनिवार्य विविधप्रकारैः निरोध्य (हन्मि) निर्मूलयामीत्यर्थः ॥ १७ ॥
विविधं तत्प्रकारमेव दर्शयति-कुद्धे इति । आविष्टे उद्विक्ते । प्रसादक्रमः । हे सौम्य! समीचीन! न ते सदृशमेतत् , पितृपितामहादीनां चरितमनुस्मर्तुमर्हसि, धर्ममेवाचर, स्वाध्यायमष्वि, प्रशान्तो मवे.