________________
प्रयोषचन्द्रोदये सध्यालये राजा-साधु साधु ।
क्षमा-देव! क्रोधस्य विजयादेव तदनुयायिनोऽपि हिंसापारुष्यमानमात्सर्यादयो विजिता एव भविष्यन्ति ।
राजा-तत् प्रतिष्ठतां भवती विजयाय । क्षमा-यदाज्ञापयति देवः ।
(इति निष्क्रान्ता ।) राजा-(प्रतीहारी प्रति) वेगवति! आहूयतां लोभस्य जेवा सन्तोषः। प्रतीहारी- देवो आणवेदि ।
(इति निष्कम्य सन्तोषेण सह प्रविशति ।) सन्तोषः-(विचिन्त्य सानुक्रोशम्) फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मूदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥१७॥ त्याधुक्तिक्रमेण यत्यत इत्यर्थः । व्याक्रोशे परुषवचनप्रवृत्तौ । कुशलोक्तिः कल्याणभाषणम् । दुरितच्छेदोत्सवो नामावश्यं तावत् कर्मफलं मोल. व्यम् । तदिहैव चेन्महान् लाम इत्यतिप्रसन्नता । धिग् जन्तोरिति । मदुपद्रवादस्य महत् पापमुपस्थितमित्यनुक्रोशश्च कर्तव्य इत्यर्थः ॥ १८॥
मात्सर्य परगुणासहिष्णुत्वम् । आदिशब्देन पैशुन्यादयो गृह्यन्ते। सन्तोष: स्वल्पेनापि प्राप्तेन परितुष्टिः । प्रतीहारी । यदेव आज्ञापयतीति ।
सहन्त इति । भक्लेशलभ्ये फले सत्यपि द्रविणमदान्धानां समासपनोः किश्यन्ते इति कस्य वा. दुपरितस्प विपाक इति न बानीम इलः ॥ १९॥