________________
१२८
प्रबोधचन्द्रोदये सव्याख्ये
क्रोधान्धकारविकटभ्रुकुटीतरङ्ग
भीमस्य सान्ध्यकिरणारुणघोरदृष्टेः ।
निष्कम्पनिर्मलगभीर पयोधि धीरा
धीराः परस्य परिवादगिरः क्षमते ॥ १५ ॥ (सश्लाघमात्मानं निर्वर्ण्य) अहो, अहम्, क्लमो न वाचां शिरसो न शूलं न चित्ततापो न तनोर्विमर्दः ।
न चापि हिंसादिरनर्थयोगः
श्लाघ्या परं क्रोधजयेऽहमेका ॥ १६ ॥ ( इत्युभे परिक्रामतः ; ) प्रतीहारी – एसो देवो । उवसप्पदु पिअसही । ( उपसृत्य ) जयतु जयतु देवः । एषा देवस्य
क्षमा
दासी क्षमा साष्टाङ्गं प्रणमति :
-
विक्रियाहेतुसम्प्राप्तावविकृतत्वप्रकारमेव धीराणां दर्शयति
धान्धकारेति ॥ १५ ॥
--
योग्येति भावः । उक्तं च
क्रो
सश्लाघमिति । सकलपुरुषार्थसाधनत्वात् क्षमां श्लाध्या बहुमति -
"अधरभ्रूविभङ्गेन वक्ति सस्मितमीक्षते ।
स्वौ भुजौ संहतौ येन भावः श्लाघाह्वयः स्मृतः ॥” इति । न चापीति । क्रुद्धस्य खलु ब्रह्महननपरस्वापहरणादिना इहलोकपरलोकविरोध्यनर्थपरम्परा प्रसरसर्ति । अतः क्षमा सर्वत्रे प्रशस्तेत्यर्थः ॥ १६ ॥
प्रतीहारी । एष देवः । उपसर्पतु प्रियसखी । देवस्य दासीति । क्षमा खलु विवेकिनः सञ्जाघटीति, ततो वि१. 'मा तु श्वा' ग. पाठ:० २. 'तः' ङ. पाठ : •