________________
चतुर्थोशः तदलमतिविलम्बेन । आदिशतु स्वामी । सोऽहं प्रकीर्णैः परितो विचारैः
शरैरिवोन्मथ्य बलं परेषाम् । सैन्यं कुरूणामिव सिन्धुराजं
गाण्डीवधन्वेव निहन्मि कामम् ॥ १४ ॥ राजा- तत् सज्जीभवतु भवान् शत्रुविजयाय । वस्तुविचारः-- यदादिशति देवः ।
(इति निष्क्रान्तः ।) राजा- वेदवति ! क्रोधस्य विजयाय क्षमाहूयताम् । प्रतीहारी-जं देवो आणवेदि ।
(इति निष्क्रम्य क्षमया सह प्रविशति ।) क्षमा
प्रदेशाः । वसन्तोदयो वसन्तारम्भः । मन्द्रं मदकरम् । शृङ्गारप्रमुखाः हेलाविलासबिम्बोकलीलाललितवित्रमाः ॥ १३ ॥
परितो विचारैरिति । कामादिचेष्टया कियत् साध्यते कियद्वा प्रशस्ताचरणेनेति विमृश्य प्रतिषिद्धाचरणं तावद् गुरुतरदुरितोदयहेतुरिति शाखानिश्चित्य तत्परित्यागेन शाखीयाचरणं कर्तव्यं, तया कामादीनां स्वरूपमपि निरूप्य निस्सारमिति ज्ञात्वा तत्साधनान्यपि हेयानीत्यवगम्य विहितनिष्ठत्वमेव श्रेयस्करमित्येवमादि परितः समन्तात् प्रवर्तमाननिशिततरविचारशरशतरित्यर्थः ॥ १४ ॥
प्रतीहारी । यद् देव आज्ञापयतीति । परेषां परिवादवाक्सायकैः दृढाहतस्यापि स्तिमितसमुद्रवदविकृतत्वं
धमा ।