________________
१२६
प्रबोधचन्द्रोदये सव्याख्य राजा-साधु साधु। वस्तुविचारः- अपिच, विपुलपुलिनाः कल्लोलिन्यो निरन्तरनिर्झरी__ मसृणितशिलाः शैलाः सान्द्रद्रुमा वनराजयः। यदि शमगिरो वैयासिक्यो बुधैश्च समागमः
क पिशितवसामय्यो नार्यस्तदा क च मन्मथः॥१२॥ नारीति नाम प्रथममस्त्रं कामस्य । तेन तस्यां जितायां तत्सहायाः सर्व एव विफलारम्भा भङ्गमासादयिष्यन्ति । तथाहिचन्द्रश्चन्दनमिन्दुधामधवला रात्र्यो हिरेफावली
झङ्कारोन्मुखरा विलासविपिनोपान्ता वसन्तोदयः । मन्द्रध्वानघनोदयाश्व दिवसा मन्दाः कदम्बानिलाः
शृङ्गारप्रमुखाश्च कामसुहृदो नार्या जितायां जिताः॥१३॥ कालवैरस्यं नरकपातादिलक्षणम् । योषितां दर्शनेऽपि देहबीभत्सतां प्रतिपदं प्रतिविषयमनुचिन्त्य मूलच्छेदं करोमीत्यर्थः ॥ ११ ।।
निरन्तरनिर्झरीति । पतन्निर्झरी स्यन्दमाननिर्झरः । मसणितं श्लक्ष्णीकृतम् । वैयासिक्यो गिर इति ।
"तमःश्व भ्रनिभं दृष्टं वर्षबुबुदसन्निभम्।
नाशप्रायं सुखाद्धीनं नाशोत्तरममावगम् ॥" इत्यादिसंसारनिन्दारूपा गृह्यन्ते । यद्यतैः सह समागमस्तदा न कामादिगन्धस्याप्यवकाशः । तस्मादवश्यं सेव्यं सज्जनादिकमित्यर्थः ॥ १२ ॥
प्रथमम् अस्त्रं प्रधानास्त्रम् । तस्य कामस्य सहायास्तत्सहायाः सहकारिण इत्यर्थः।
तानेव दर्शयति-चन्द्र इत्यादिना । विपिनोपान्ताः उपवन