________________
चतुर्थोऽः।
१२५ वस्तुविचारः- (उपसृत्य) जयतु जयतु देवः। एष वस्तुविचारः प्रणमति।
राजा-इहोपविश्यताम् । वस्तुविचारः-उपविश्य) देव ! एष ते किङ्करः सम्प्राप्तः। तदाज्ञयानुगृह्यताम् ।
राजा-महामोहेन सहास्माकं संप्रवृत्तः सङ्ग्रामः। तदत्र कामस्तस्य प्रथमो वीरः। तस्य च प्रतिवीरतयास्माभिर्भवानेव निरूपितः।
वस्तुविचारः- धन्योऽस्मि । येन स्वामिनाहमेवं स. म्भावितः ।
राजा - अथ कया शास्त्रविद्यया भवान् कामं जेष्यति ।
वस्तुविचारः - आः पञ्चशरः कुसुमधन्वा जेतव्य इत्यत्रापि का शस्त्रग्रहणापेक्षा । पश्य, दृढतरमपिधाय द्वारमारात् कथञ्चित्
स्मरणविपरिवृत्तौ दर्शने योषितां वा। परिणतिविरसत्वं देहबीभत्सतां वा
प्रतिपदमनुचिन्त्योन्मूलयिष्यामि कामम् ॥ ११ ॥
प्रथमो वीरः प्रधानो योद्धा । भवानेवेति । वस्तुविचारेणैव कामोन्मूलनं कर्तुं शक्यत इत्यर्थः ।
द्वारं श्रोत्रादि नव । आरात् दूरादेव । विषयपरिहाण्या द्धतरमपिधाय संयम्येत्यर्थः । कथञ्चिदिति । प्राणायामादिबहुप्रयत्नेन । ननु 'चञ्चलं हि मनः कृष्णे'ति वचनात् सहसा प्रवर्तमानस्य मनसश्चक्षुषो वा कथं निरोध इति शङ्कते - स्मरणेति । स्वैरसञ्चारानुरोधेन शास्त्रार्थानुस्मरणवैपरीत्येन विषय एव प्रवृत्तौ । मनोनिरोधनोपायमाह-परिणतीति । फल