________________
प्रबोधचन्द्रोदये सव्याख्ये
(आकाशे) आः पाप ! कामचण्डाल ! किमेवमनालम्बनमेवाविर्भवता भवता व्याकुलीक्रियते महाजनः । तथाह्ययमेवं मन्यते
बाला मामियमिच्छतीन्दुवदना सानन्दमुदीक्षते नीलेन्दीवरलोचना मम परीरम्भं भृशं वाञ्छति ।
१२४
अरे मूढ !
का त्वामिच्छति का च पश्यति पशो ! मांसास्थिभिर्निर्मिता नारी वेद न किञ्चिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १० ॥ इदो इदो एदु महाभाओ ।
प्रतीहारी
-
(इत्युभौ परिक्रामतः । )
प्रतीहारी एसो महाराओ चिट्ठदि । ता उवसप्पदु
भवम् ।
आकाश इति । तं निराचष्टे आः पापेति । अनालम्बनमिति । विषय सौन्दर्यसम्भावना खल्वनङ्गबलम् । तञ्चैवं निःसारमिति निरणायि । अतो निरास्पदेनेत्यर्थः । व्याकुलीकरणमेव दर्शयति - तथाहीति ।
।
-
-
सम्प्रति वस्तुविचारकस्यासदाचरणावधीरणां दर्शयति अरे मूढेति । का त्वामिच्छतीत्यादेरयमर्थः – त्वया खलु शुक्लशोणितसम्भूतमांसास्थिमज्जादिभिर्निर्मित शरीरेन्द्रियसङ्घातरूपं पिण्डं नारीति परिकल्पि - तम् । तच काष्ठलेोष्टादितुल्यं न किञ्चिदपि जानात्यतो नैव त्वां वाञ्छतीति । कस्तत्र ज्ञातेति तदाह - स पुनरिति । स इति सर्वनाम्ना प्रसिद्धावद्योतकेन स्वयंप्रकाशसंविदुरूपः परमात्माभिधीयते । अमूर्तः अपरिच्छिन्नः । परिपूर्णः सर्वगतः कूटस्थैः चिदुधन एव सन् सर्वसाक्षितया वर्तते इत्यर्थः ॥ १० ॥
।
।
प्रतीहारी । इत इत एतु महाभागः । एष महाराजस्तिष्ठति । तस्मादुपसर्पतु भवान् ।
१. 'तु' क. ख. पाट:. २. 'स्थे' ङ. पाठः.