________________
चतुर्थोऽः ।
१२३ अपिच यथावस्तु विचारयतां मन्दमतीनामपि पिशितपिण्डावनदास्थिपञ्जरमयी स्वभावदुर्गन्धबीभत्सवेषा नारीति नास्ति विमतिः । तत्र विस्पष्ट एव तावदितरगुणाध्यासः । तथाहिमुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो
रागः कुङ्कुमसम्भवः सुरभयः पौष्पा विचित्राः स्रजः । वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहो कल्पितं बाह्यान्तः परिपश्यतां तु निरयं नारीति नाम्ना कृतम्॥९॥ "सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी ।
कल्पनामात्रसम्मोहाद्रामेत्यालि(ङ्ग ? नय)तेऽशुचिः ॥" इति ॥ ८॥
यथावस्तु विचारयतामिति । अपरिचितशासाणां प्रत्यक्षमात्रशरणानाम् अल्पबुद्धीनामपि निर्व्याजमन्तबहिर्विभागेन नारीतत्त्वं विचारयतां निसर्गदुर्गन्धबीभत्सवेषा योषिदिति (न? ना)विज्ञातमस्तीत्यर्थः । अध्यासो नामातस्मिंस्तबुद्धिः ।
कुतस्त्यास्तहि परिदृश्यमाना गुणा इत्यपेक्षायामारोपितगुणस्वरूपमाह --मुक्तेति । नार्यामारोपितहारादिषु प्रत्येकं निरूप्यमाणेषु, हारलतास्तावन्मुक्ताफलव्यतिरेकेण न सन्ति । तुलाकोटयः शिजन्मखीरा हेमव्यतिरेकेण न सन्ति । अङ्गरागोऽपि कुङ्कुमव्यतिरेकेण नास्ति । सुरभयो घ्राणतर्पणा गन्धाः सुमनोव्यतिरेकेण न सन्ति । सुप्रसिद्धं च वसनादीनां पृथक्त्वम् । अतः समारोपितमेव केवलमित्यर्थः ' का तर्हि नारी नामेति, तत्राह-निरयमिति । निरयं नरकम् । तत्प्राप्तिनिदानत्वाद् निरयमित्यर्थः ॥ ९॥
ननु नारी नाम नवयौवननरनिकरनिर्वृतिनिदानमतः कथं निरयमिति निगद्यते इति कस्यचित् कन्दर्पवटोर्भाषितमिव भावयन्नाह -
-
१. 'चिम्' क. ख. घ, ङ, पाठः, २. 'परामृश्यमा' ग. पाठः.
R2