________________
१२२
प्रबोधचन्द्रोदये सव्याख्ये भवदर्थे गृहीतपक्षैवेति । तत्र कामस्तावत् वस्तुविचारेणैव जीयते । तद् भवतु । तमेव तावत् तन्निर्जयायादिशामि । वेदवति! आहूयतां वस्तुविचारः।
प्रतीहारी- देवो आणवेदि। (इति निष्क्रम्य वस्तुविचारेण सह प्रविशति ।)
वस्तुविचारः- अहो निर्विचारसौन्दयाभिमानसंवर्धिष्णुना कामहतकेन वञ्चितं जगत् । अथवा दुरात्मना महामोहेनैव । तथाहि - कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नम
त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥८॥ प्रत्येकं कामादिनिवारकं निरूपयति-कामस्तावदित्यादिना । वस्तुविचारो नाम वस्तुतत्त्वसारतानिरूपणम् । अनुभवसाधनवेदप्रमाणसहकृता युक्तिवेदवतीत्युच्यते । तया सह वस्तुविचारः प्रवर्तत इति भावः ।
प्रतीहारी । यद् देव आज्ञापयतीति ।
वस्तुविचारमेव विशदयति-- अहो निर्विचारेति । अविचारितरमणीयत्वाभिमानप्रवर्धनशीलेनेत्यर्थः ।।
दृष्ट्वा । दर्शनेन कर्तव्यं विस्मृत्यात्रैव चित्तं भ्रमतीत्यर्थः । पुनः सल्लापेन मोदते हृष्यति । तदनु परिरम्भणादिना अभिरमते क्रीडति । प्रस्तौति पौनःपुन्येन तदेवारभत इत्यर्थः । ननु विदुषाप्येवं क्रियते चेत् तथैवाभ्युपगम्यतामित्याशङ्कयाह ---- प्रत्यक्षेति । विद्वत्तापि तेषां तादृश्येवे. त्यर्थः । उक्तं च -
१. 'ते त' ग. पाटः.