________________
चतुर्थोऽहः । अमुष्य संसारतरोरबोध
मूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनबीजजातात्
तत्त्वावबोधादपरोऽस्त्युपायः ॥ ७ ॥ "प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् ।” इति तत्त्वविदो व्याहरन्ति । तथाच देव्या विष्णुभक्त्या समादिष्टम् 'उद्योगः क्रियतां कामादिविजये । तदहमपि ज्ञानाज्ञानयोस्तु तमःप्रकाशवद्विरुद्धस्वभावत्वात् सम्यग्ज्ञानेनैव निवृत्तिरित्येवकारार्थः । उक्तं च ---
"कर्मावमार्टि नाज्ञानं तमसीवोत्थितं तमः ।
सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥" इति ।
__अबोधमूलस्येति । अविद्यायां सत्यां संसारापेलम्मादसत्यामनु पलम्भादबोधमूलत्वमित्यर्थः । नापरोऽस्त्युपाय इति । अयं भावः -- ईश्वरार्पणबुद्धयानुष्ठितपुण्यनिवहैरवदातान्तःकरणानां परमेश्वरप्रसादप्रापित. सम्यग्ज्ञानादेवाज्ञाननिवृत्तिः । न पुनः श्रद्धादिरहितानामविष्णुभक्ताना मनेकशः श्रुतवेदान्तानामप्यसम्भावनादिप्रतिबन्धबाहुल्यात् तज्ज्ञानं न कार्यक्षम भवतीति ॥ ७ ॥
ननु तर्हि ईश्वरप्रसाद एव दुःसम्पादः, 'श्रेयांसि बहुविनानीति 4चनाद् इति चेत्तत्राह–प्राय इति । सुकृतिनां भक्तिश्रद्धादिपूर्वकपुण्यकर्मकृताम् । भक्तजनपरवशत्वाद् देवा नाम भक्ताननुजिघृक्षन्त्येवेत्यर्थः । उक्तं च
“यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥" इति । यथा खलु परमेश्वरप्रसादो भवति, तथा विष्णुभक्त्याप्यनुकूल्य. मेवावेदितमित्याह – तथाच देव्येति । एवं तावद्विष्णुभक्तिबलावष्टम्भेन संसारतरोः सामान्येन निराकरणकारणं ब्रह्मज्ञानमिति निरणायि । इदानी
१. 'शयोरिव विरु' ङ. पाठः. २. 'णं सम्यग्ज्ञान' क. पा..