________________
प्रबोधचन्द्रोदये सव्याख्ये
शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावलीनिर्मुक्तेऽमृतसागराम्भसि मनाङ्मनोऽपि नाचामति । निस्सारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥६॥
पिब
अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च तत्त्वावबोधादेव निवृत्तिः । यतः
१२०
।
1
-
सम्पाद्यते जनैरिति तत्राह - शान्ते इत्यादिना । शान्ते सर्वोपद्रवरहिते । अनन्तमहिम्नि देशकालवस्तुपरिच्छेदरहिते स्वयं ज्योतिषि । निर्मले अविद्यादिमलरहिते । तरङ्गावलीनिर्मुक्ते बुभुक्षापिपासाशोकमोहजरामरणषडूर्मिविरहिते । नाचामति नोपस्पृशति । नन्वलाभादनास्वादो वर इति चेत् तत्राह - मग्नोऽपीति । अयं भावः - न खल्वस्य निरूप्यमाणे देहादयः स्वरूपं दृश्यत्वाद् घटवत् । स चात्मेहलोकपरलोकसञ्चारी नित्य एष्टव्योऽन्यथा विधिवैयर्थ्यप्रसङ्गात् । तस्य च निरुपाधिकं स्वरूपं पारमेश्वरमेव श्रुतिस्मृतीतिहासपुराणप्रामाण्यात् । अतः परिपूर्णब्रह्मरूपेण वर्तमानोऽपि मनाक् स्वल्पमपि नाचामतीति । नन्वन्यत्रैव पुरुषार्थस्य सुलभत्वादत्रापेक्षाभावान्न प्रवर्तत इति चेत् तत्राह - श्रान्तोऽपीति । सुखलवलिप्साकुलतया सुरनरसूकरादिदेहेष्वनिशमारोहावरोहन्यायेन घटीयन्त्रवदनिशं बम्भ्रम्यमाणोऽलब्धसुखलेशः केवलं परिश्रान्त एवेत्यर्थः । न केवलं पुरुषार्थप्राप्तिरेव, अपुरुषार्थाभिनिवेशोऽप्यस्तीत्याह · - मृगतृप्णिकेति । मूढ इति । सर्वस्यास्य मोह एव मूलमित्यर्थः ।। ६ ।।
।
।
I
अथवा सर्वस्यास्य संसारानर्थस्याविद्यैव मूलं, तां विना मोहवराको - ऽयं किं करिष्यति । अतः सैवोच्छेत्तव्या प्रथममित्याह – अथवेत्यादिना । ननु तर्हि यज्ञादिक्रियया साध्य एवायमर्थः किमिति निगमावसानसेवया सम्यग्ज्ञानसम्पादनप्रयास इत्याशङ्कयाह तत्त्वावबोधादेवेति । न खलु कर्मविद्ययोर्विरोधोऽज्ञस्य कर्माधिकाराद् ।
- तस्य च
'दनास्वादनम् इ' क, पाठः. २. 'भेदेष्व' क. घ. पाठः,
"
-