________________
चतुर्थोऽङ्कः ।
त्मना विबेक उपनिषद्देव्याः सङ्गमार्थं तपस्यतीति ।
मैत्री - ता गच्छउ पिअसही । अहं वि तणिओअं
अणुचिष्ठामि ।
श्रद्धा एवं भवतु ।
( इति निष्क्रान्ते ।)
विष्कम्भकः ॥
----
११९
(ततः प्रविशति राजा प्रतीहारी च )
राजा - आः पाप ! महामोहहतक! सर्वथा हतस्त्वयायें महाजनः । तथाहि
1
क्वाचित्कत्वेन वर्तत इत्यर्थः । व्याकुलेनेति । धर्माद्यवष्टम्भस्य दुर्बलत्वाचंअलेन चेतसा सहित इत्यर्थः । एवं मत्या परिपाल्यमानः कथञ्चिदुपनिषत् - सातत्यात् तदर्थनिर्णयार्थमालोचनरूपं तपः सम्पादयन् वर्तत इत्यर्थः । मैी । तस्माद् गच्छतु प्रियसखी । अहमपि तन्नियोगमनुतिष्ठामि ।
एवं तावत् प्रस्तुतविधानाय शमदमादीनुद्योजयाम इत्यत्र महामोह - विजयाय शमदमादिभिर्यतनीयमित्यभाणि । अधुना करुणामैत्रीमुदितोपेक्षादिसामय्यां सत्यां विवेकः स्वयमेव वर्तत इत्याह- तत इति । अथवा विष्णुभक्तिप्रेषिता समागता श्रद्धेत्युक्तम् । देव्याश्वेन्महाप्रसादस्तर्हि निःश्रे - यसाय प्रयत्नः क्रियत एवेति प्रवर्तत इत्याह- तत इति । राजा विवेकः ।
सर्वथेति । वर्णास्तावद् ब्राह्मणादयो मोहपरिगृहीता एव । आमाध गृहस्थादयो विशेषधर्मानुष्ठायिनो रागादिभिरुपप्लुता एवानुतिष्ठन्ति । सामान्यधर्मोऽपि दम्भादिभिः क्रियत इत्येवं, सर्वप्रकारेणापि निषूदित इत्यर्थः ।
ननु कथं सर्वप्रकारेणापि हतत्वं यतो महता प्रयासेन मूरिफले १. 'मुपति' ग० पाठ:. २. 'श्रमिणश्च' क. घ. ङ. पाठः,