________________
प्रबोधचन्द्रोदये सव्याख्ये एवं प्रसादमुपयाति हि रागलोभ__द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥५॥
एवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान् नयामः। कुत्रेदानीं प्रियसखी महाराजमवलोकयिष्यति ।
श्रद्धा - देव्यैवेदमुक्तम्--अस्ति राढाभिधानो जनपदः । तत्र भागीरथीपरिसरालङ्कारभूते चक्रतीर्थे मीमांसानुगतया मत्या कथञ्चिद् धार्यमाणप्राणो व्याकुलेनान्तरा
कथकारं विवेककारणत्वेनोररीकृता यूयं महात्मभिरिति, तदाहते हीति । सुखिनीति । वसुसुतवसुधादिसम्पत्सान्द्रसुखसमुद्रसमाकुलं सकललोकमालक्ष्य तैः सह सौहृदय्यमेव प्रतिपद्यन्ते, नासूयामित्यर्थः । अथवा सुखिनि वीतरागे । दुःखिनीति। पुत्रक्षेत्रकलत्रादिवियोगनिमित्तदुःखजलधिनिमनानालक्ष्य तान् प्रत्यसह्यं वर्तते दुःखमहो कष्टमित्यनुकम्पां कारुण्यमेव प्रतिपद्यन्त इत्यर्थः । उक्तं च -
"अनुकम्पा तु सा ज्ञेया दुःखितान् प्रति देहिनः ।
उपकारपरत्वं या कुरुते चित्तविक्रिया ॥" अथवा दुःखिनि रागद्वेषवति । पुण्यक्रियेष्विति । साधुकर्मकारिषु सर्वलोकसम्भावितेषु । मुदितां सन्तुष्टाम् । कुमताविति । परोपद्रवादिकुत्सितकर्मकर्तरि अविधेये । उपेक्षा तद्वार्तामपि परिहृत्यौदासीन्येन स्थिति अथवा तत्पृष्ठीकारेण सत्कथासेवनमुपेक्षा । एवं क्रियमाणे फलमाह-प्रसादमुपयातीति । किं तदिति ? त्याह --) अन्तरात्मा मनः रागादिदोषदूषितमपि निर्मलं करिष्यतीत्यर्थः ॥५॥
जनपदो ग्रामः । परिसरस्तीरम् । न्यायादिना श्रुत्यर्थनिर्णयार्थी विचारणा मीमांसा । कथञ्चिदिति । रागादिप्रतिबन्धस्य बाहुल्यात् तत्रापि