________________
चतुर्थोऽङ्कः ।
११५
मैत्री (सत्रासम् ) अहो हदासा घोळदंसणा | अध
ताए आअदाए किं किदं ।
ww
श्रद्धा शृणु,
श्येनावपातमवपत्य पदद्वये मामादाय धर्ममपरेण करेण घोरा । वेगेन सा गगनमुत्पतिता नखाग्रकोटिस्फुरत्पिशितपिण्डयुगेव गृधी ॥ ३ ॥
हद्धी हद्धी । (इति मूर्छति ।)
सखि ! समाश्वसिहि रामाश्वसिहि ।
मैत्री
B
श्रद्धा
मैत्री — (आश्वस्य) तदो तदो ।
श्रद्धा ततः परमस्मदीयार्तनादसादयया देव्या
विष्णुभक्त्या -
भ्रूभङ्गभीमपरिपाटलदृष्टिपात
मुद्गाढकोपकुटिलं च तथा व्यलोकि ।
मैत्री | अहो हताशा घोरदर्शना । अथ तयागतया किं कृतम् ।
श्येनापातमिति श्रद्धा तदुत्तरमाह । यथा खलु स्वच्छतरजलाशये स्वैरसञ्चारि नीरचर मिथुनमनिरूपितमेवादाय सहसैव कश्चन श्येनो गच्छति, तद्वदभिपत्य अभिप्लुत्य मां धर्मं च गृहीत्वा गता सेत्यर्थः । वेगेनेति । असदृशजनसंसर्गः सहसैव धर्मादिकं तिरयतीति भावः । गृध्री गृध्रभार्या ॥ ३ ॥
मैत्री । हा धिक् हा धिक् । ततस्ततः ।
उद्गाढकोपेन प्रचुरतरक्रोधेन । कुटिलं जिह्मं यथा भवति तथा
१. 'दाक्षाय्या' क० ङ. पाट:.