________________
प्रबोधचन्द्रोदये सव्याख्ये
सा वज्रपातहत शैलशिलेव भूमौ
व्याभुग्न जर्जरतरास्थि यथा पपात ॥ ४ ॥ "मैत्री - दिट्टिआ मिईव सद्द्ळमुहादो पम्भट्टा सद्धा क्खेमेण संजीविआ पिअसही । तदो तदो ।
११६
श्रद्धा - ततो देव्या समुपजाताभिनिवेशया कथितमेवमस्य दुरात्मनो महामोहहतकस्य - मामवज्ञाय प्रवर्तमानस्य समूलमुन्मूलनं करिष्यामीति । आदिष्टा चाहं देव्या । यथागच्छ श्रद्धे! ब्रूहि विवेकम् । कामक्रोधादीनां निर्जयायोद्योगः क्रियताम् । ततो वैराग्यं प्रादुर्भविष्यति । अहं च यथासमयं
व्यलोक । तथेति अपाङ्गबाणमात्रप्रयोगेणाधर्मशैलः शतधा विदीर्ण इत्यचिन्त्यप्रभावा विष्णुभक्तिरित्यर्थः ॥ ४ ॥
मैत्री । दिष्ट्या मृगीव शार्दूलमुखात् प्रभ्रष्टा श्रद्धा क्षेमेच सजीविता प्रियसखी । ततस्ततः ।
एवमस्य दुरात्मन इति । सकल पुरुषार्थमूलभूतां विष्णुभक्तिं मामवधीयोद्वेलं वर्तमानस्य विवेकमुपनिषदा संयोज्य सम्यग्ज्ञानं सम्पाद्याविद्यालक्षणं मूलं महामोहहतकस्य मिथ्याज्ञानं दुरात्मनो निर्मूलयिष्यामी - त्यभिप्रायेणोक्तमित्यर्थः । उद्योग इति । सपरिकरसन्नाहः क्रियतामित्यर्थः । नन्वेतावता कथं कामादिविजय इति चेत्, तत्राह - तत इत्यादिना । अयं भावः – सह प्रमाणयुक्तिभ्यां वस्तुतत्त्वपर्यालोचनरूपविवेकप्रवृत्तौ सत्यां परिपूर्णप्रत्यगात्मवस्तुव्यतिरेकेणोपलभ्यमानस्याविचाररमणीयस्य दे -
हादेरनित्याशुचिदुःखरूपत्वात्,
“अस्थिस्थूणं स्नायुबन्धं मांसशोणितकर्दमम् । चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥” इत्यादिशास्त्रानुसारेण प्रत्यक्षानुभवाच्च विरसबीभत्सतासिद्धेः छर्दितान्नचद्
१. ' सहसा वि', २. 'बु' ग. पाठः .