________________
११४
प्रबोधचन्द्रोदये सव्याख्ये
संमुहाअदं वि मं ण ळक्खेदि । आळबिस्सं दाव । (प्रकाशम्.) पिअसहि ! सद्धे ! कीस तुमं उत्ताविअहिलआ मं विमा आळोएसि ।
श्रद्धा - (विलोक्य सोच्छ्वासम् ) भये ! प्रियसखी मैत्री |
T
तदेहि परिष्वजस्व माम् ।
मैत्री - (तथा कृत्वा) सहि ! तह विष्णुभत्थिणिन्भत्थिदप्पभावा महाभैरवीए कड् ढणसम्भमादो अज्ज वि वेवन्दि दे अङ्गाइ |
श्रद्धा --- (घोरामित्यादि पठति ।)
कालरात्रिकरालस्य दन्तान्तर्गतया मया । उष्टासि सखि ! सैव त्वं पुनरत्रैव जन्मनि ॥ २ ॥
भयवेगबलेनेष्टतमामपि मामभिमुखमागतां पश्यन्त्यपि न पश्यतीत्यर्थः । इयं तावदनुभूतभूरिदुःखवेदनया प्रम्लानतरतनुलतिकेव लक्ष्यते । तस्मादहमेव पूर्वमालपिष्ये इत्यभिप्रायेणाह मैत्री - आलपिष्ये तावदिति । प्रियसखि । श्रद्धे ! कस्मात् त्वमुत्तापितहृदया मामपि नालोकयसि ।
कालरात्रिरिति महाभैरवी भण्यते । सैव त्वमिति श्रद्धामैच्योरौत्सर्गिकं हि सदा साहचर्यमित्यसूसुचत् । अत्रैव जन्मनीति पञ्चत्वकल्पातिघोरतरापद्गतानामसम्भाव्यमानमपि प्राप्तं विधिवशादिति भावः || २ ||
1
j
अचिन्तितेष्टप्राप्तावाधिकतराह्लाद (को? कं) भवत्युपगूहनमिति मन्वाना नदेहीत्यादिना ।
मैत्री | सखि ! तथा विष्णुभक्तिनिर्भसितप्रभावाया महाभैरव्याः कर्षणसम्भ्रमतोऽद्यापि वेपन्ते ऽङ्गानि ।
आह
――――――
१. 'तः' ङ. पाठः.