________________
चतुर्थोऽः।
११३ सही सद्देति । ता उक्कण्ठिएण हिअएण पियसहीं पेक्खिस्सम् । (परिकामति ।)
(ततः प्रविशति श्रद्धा ।) श्रद्धा- (समयोत्कम्पम् ) . घोरां नारकपालकुण्डलवती विद्युच्छटा दृष्टिभि
मुंश्चन्तीं विकरालमूर्तिमनलज्वालापिशङ्गैः कचैः । दंष्ट्राचन्द्रकलाङ्कुरान्तरवलज्जिह्वां महाभैरवीं
पश्यन्त्या इव मे मनः कदलिकेवाद्याप्यहो वेपते॥१॥ मैत्री- (स्वगतम्) अए! एसा मे पिअसही भअसंभान्तहिअआकळिदकम्पतरळेहिं अङ्गहिं किं वि मन्तअन्ती
"अलब्धविषये रागे वेदना महती तु या।। संशोषणी च गात्राणां तामुत्कण्ठां विदुर्बुधाः ।।"
इति।
एवं प्रियसखीप्रेक्षणप्रवर्धमानोत्कण्ठा मैत्रीत्युक्तम् । इदानीं विष्णुभक्तेः सन्देशं गृहीत्वा विवेकाय निवेदयितुं प्रवृत्तायाः श्रद्धाया व्यापारः प्रदर्श्यते ततः प्रविशति श्रद्धेत्यादिना ।।
घोरां त्रासजननीम् नारेति । नरशिरःकपालकृतकुण्डलेत्यर्थः । विधुच्छटाः शतहदासंहतयः ता दृष्टिभिर्मुञ्चन्तीं विसृजन्ती विकरालमूर्ति भयानकविग्रहाम् । उक्तविशेषणकचैः सहिताम् । कदलिका गजराजाविरोपिता वैजयन्ती, रम्भा वा । अद्यापीति । विष्णुभक्त्या पूर्वमेव सुदृढं संरक्षितैवाहं, तथापि कम्पत इत्यर्थः ॥ १।।
मैत्री - अये ! एषा मे प्रियसखी भयसम्भ्रान्तहृदयाकलितकम्पतरलैरङ्गैः किमपि मन्त्रयन्ती सम्मुखागतामपि मां न लक्षयति । अति. कष्टतरासज्जनसमवायः खल्वशेषनरकनिदानमिति निरूपयन्ती पूर्वानुभूत
१. 'नवकन रुकपिशै: केशैः स' ह पाठः.