________________
११२
अथ चतुर्थोऽङ्कः ।
(ततः प्रविशति मैत्री ।)
... मैत्री . सुदं मए मुदिआसआसादो जं महाभैरवी कड्ढणसम्भमादो भअवदीए विष्णुभक्तीए परित्तादा पिअ
अथ चतुर्थोऽङ्कः ।
एवं तावद् बालगोष्ठीवदत्यन्तासरतयापदेयत्वेन पाषण्डविडम्बना पूर्वपक्षत्वेनोपक्षिप्ता । अतीताङ्कावसाने च महामोह साम्राज्य सम्पादनाय महाभैरवी सरभसं प्रेषितेत्यभाणि । अथेदानीं तथाप्रवृत्तभैरवीसरभसव्यामोहसम्भ्रमतः कथमपि भगवत्या विष्णुभक्त्या श्रद्धाँ संरक्षितेति किंवदन्तीमात्रश्रवणात् तद्वृत्तान्तविविदिषया कथङ्कारं खल्वित्याकुलाशया मैत्री प्रवर्तत इत्येतदाह - ततः प्रविशति मैत्रीत्यादिना । अथवा मुख्योऽधिकारी विचाराय प्रवर्तत इत्यभाणि । तत्रैकोऽपि बहुधा तेनेत्यादिना स्वरूपं पर्यालोचितवान् । तत्र पुनः किं मानमित्याकाङ्क्षायामुपनिषद्देव्या सङ्गमो भवेदित्यादिना वेदान्तवाक्यानां तत्र सम्यगन्वयमपि विचारितवान् । पुनश्च डम्भादिप्रतिबन्धकप्रदर्शनेन उक्तसमन्वयविरोधमुद्भाव्य यदि सैव श्रद्धेत्यादिना पर्यहार्षीत् । तृतीयेन चाङ्केनार्हतादिदर्शनविरोधमुद्भाव्य मूलं देवीत्यादिना अविरोधः सम्भावितः । एवं प्रथमेनाङ्केन स्वरूपसमन्वय विचारमुपपाद्य द्वितीयतृतीयाभ्यां विरोधसम्भावनां चोपपाद्य उपसञ्जहार । अधुना तु साधनाधीन खलु फलप्राधिरिति न्यायात् तत्प्राप्तिसाधनं किमित्यंपेक्षायां चतुर्थपञ्चमाभ्यामुच्चावचस्वरूपसाधनं निरूपयति - ततः प्रविशतीत्यादिना । मित्रं सुहृद् । तद्भावो मैत्री ।
श्रुतं मया मुदितासकाशाद् यन्महाभैरवीकर्षणसम्भ्रमतो भगवत्या विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तस्मादुत्कण्ठितेन हृदयेन प्रियसखीं प्रेक्षिष्ये । उत्कण्ठा उत्कलिका । उक्तं च
१. 'प्रगोष्ठी', २. 'भासत' ख. पाठः. ३. 'द्धादयः परित्राता' 'ना साध्यफ' ग. पाठः ५, 'त्याकाङ्गायां' क. ख. पाठः
ग. घ. पाठः. ४.