________________
तृतीयोऽरः । क्षपणकः- अळे ! को एसो कावाळं वदं धादि पुळिसो । ता एणं पुच्छिस्सम् । (उपसृत्य) अळे ळे कावाळिअ! णळात्थिमुण्डधाळिअ! कीळिसो तुह शोक्खो, कीळिसो तुह मोक्खो।
कापालिकः- अरे क्षपणक ! धर्म तावदस्माकमवधारय । मस्तिष्कान्त्रवसाभिधारितमहामांसाहुतीर्जुह्वतां
वह्नौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यःकृत्तकठोरकण्ठविगलत्कीलालधारोजलै
रर्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥१३॥ परमेश्वरसमाराधनया सेवारूपः । स एवाचनवत् संस्कारहेतुत्वाद् योगाञ्जनं, तेन शुद्ध दर्शनं पारमेश्वरं ज्ञानं चक्षुर्यस्य स तथोक्तः । एवंभूतदर्शनोऽहं विभुत्वात् कारणत्वाच परमेश्वरस्य अतस्तेनाभिन्नमिदं जगत् । परिछिन्नत्वात् कार्यस्वाच भिन्नमित्येवं भेदाभेदं पश्यामीत्यर्थः ॥१२॥
क्षपणकः । अरे! क एष कापालं व्रतं धारयति पुरुषः । तदेनं पृच्छामि । अरे! कापालिक ! नरास्थिमुण्डधारिन् ! कीदृशं तव सौरपं, कीदृशस्तव मोक्षः ।
साधनाधीना हि फलप्राप्तिरित्यभिप्रायेण स्वसामयिकसिद्धसाधनमेव दर्शयति-धर्म तावदिति । अभिधारणमुपस्नेहनम् । महामांसं मरमांसम् । मूरिसम्पादितं वा । ब्रह्मणः कपालं ब्रह्मकपालं ब्राह्मणस्य वा कस्यचिदुस्तष्टस्य शिरःकपालम् । तस्मिन् मूरि सम्पादितां मदिरां पूर्व भैरवाय निवेद्य ततः शेषपानं पारना । सद्यः सपदि कृतकठोरकण्ठात् कैर्तितदृढतरपीनगलनाला विशेषण गलता कीलालानां रुधिराणां धाराभिरुद्रिक्तैः। नराणा. मामिषनेवोपहारः पूजासाधनं तेन बलिमिः पूजाविशेषैः । एवं समाराधनरूपोऽस्मद्धर्म इत्यर्थः ॥१३॥
१. 'चण्डित' प. पाठ..
ol