________________
प्रबोधचन्द्रोदये सव्याल्ये शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो
भावान् प्रकाशयितुमप्युदरे गृहस्य ॥ ११ ॥
तस्माल्लोकद्वयविरुद्धादार्हतमताद् वरं सुगतमतमेव साक्षात् सुखावहमतिरमणीयं पश्यामः ।
शान्तिः-सखि! अन्यतो गच्छावः । करुणा- एवं भोदु ।
(इति परिकामतः।) शान्तिः- पुरो विलोक्य) एष पुरस्तात् सोमसिद्धान्तः। भवतु । अत्रापि तावदनुसरावः ।
(ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः।) सोमसिद्धान्तः-(परिक्रम्य) नरास्थिमालाकृतचारुभूषणः
श्मशानवासी नृकपालभोजनः । पश्यामि योगाञ्जनशुद्धचक्षुषा __ जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥१२॥
नन्वाहतोतार्थस्य वृष्टयादेस्तथात्वदर्शनात् तस्य सर्वज्ञत्वं प्रतिपन्नमेवेति चेत् , तत्राह- ज्ञातुमिति । 'शरीरपरिमितः खल्वात्मेति तस्य मतम् । तथाच कथं मनसाप्यचिन्त्यरूपानन्तपदार्थज्ञानं चेतनस्यापि सतः सम्बन्धेन विना जाघटीति प्रदीपस्य समर्थस्याप्यदर्शनात् कुम्भनिहितस्येत्यर्थः ॥११॥
लोकद्वयविरोधो नाम पञ्चमलधारणरूपत्वादिहलोकसौख्यस्य दत्त एव जलावलिः । अमुत्र त्वस्य सन्ततगत्या क्लेश एव केवलं न पुनः सुखवोऽपीत्यर्थः ।
करणा । एवं भवतु । सोमसिद्धान्तो माहेश्वरं दर्शनम् ।
तदीयेतिकर्तव्यतानियमं दर्शयन् दर्शनमेव दर्शयति-नरास्थीति । योगो नाम तत्समयोदितपुरुषोपहारादिना यथोक्तप्रकारेण यथोक्तविशेषेण
१. 'न्द' ग. पाठः २. 'षणेन प' ख. पाठः.