________________
तृतीयो। क्षपणकः - अळे विहाळदासीमुअङ्ग ! दुट्ठपळिव्वजिअ! दिळंदो मए, दंसिदो। ता पि दे विस्सहं भणामि । बुद्धाणुसासणं पळिहळिअ अळिहन्ताणुसासणं जेव्व अनुसळिदु भवम् । दिअम्बळमदं माचळंदु मवम् ।
भिक्षुः-आः पाप! स्वयं नष्टः परानपि नशियितुमिछसि ।
स्वाराज्यं प्राज्यमुत्सृज्य लोके निन्द्यामनिन्दितः ।
अभिवाञ्छति को नाम भवानिव पिशाचताम् ॥ १० ॥ अपिच, अर्हतोऽपि धर्मवेदनं कः श्रद्दधाति ।
क्षपणकः-गहणक्खत्तचाळचन्दसूळ्ळोपळाअदुख्खळपळमळहस्साणं आदेशसंवाददसणेण णिळूविदं सव्वण्णत्तणं भअवदो अळिहन्तस्स ।
भिक्षुः- अरे! अनादिप्रवृत्तेन ज्योतिषातीन्द्रियज्ञानेन प्रतारितेन भवतेदमतिकष्टं व्रतमाश्रितम् । तथाहि
ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकी
जीवः कथं कथय सङ्गतिमन्तरेण । अरे विहारदासीभुजङ्ग! दुष्टपरिव्राजक ! दृष्टान्तो भया दर्शितः । तस्मात् प्रियं ते विस्रब्धं भणामि । बुद्धानुशासनं परिहत्यार्हतानुशासनमेवानुसरतु भवान् । तस्माद् दिगम्बर(पद ? मतामेवाचरतु मवान् । विहारो नाम मिथूणां स्थानम् । भुजङ्गो धूर्तः । विहारदासभुजङ्गो गृहदासीजनविधेयइत्यर्थः । परिहत्य त्यक्त्वा ।
(ननु?) ग्रहनक्षत्रचारचन्द्रसूर्योपरागंदुष्करपरमरहस्यांनामादेशसंवाददर्शनेन निरूपितं सर्वज्ञत्वं भगवतोऽर्हतः ।
प्रतारितेंन विप्रलब्धेन।