________________
प्रबोधचन्द्रोदये सव्याख्ये क्षपणकः- भण दाव खणविणासिणा तुए कस्स किदे वदं धाळीअदि।
भिक्षुः--अरे श्रूयताम् । अस्मत्संततिपतितः कश्चिद् विज्ञानलक्षणः समुच्छिन्नवासनो मोक्ष्यते ।
क्षपणकः-अळे मुच्चळज्ज ! कस्सि वि मण्णन्तळे कोवि मुको भविस्सदि । तदो दे संपदं गट्ठस्स कीरिसं उवआळं कळिस्सदि । अण्णं वि पुच्छामि । केण दे ईरिसो धम्मो शंदिहो। भिक्षुः--नूनं सर्वज्ञेन भगवता बुद्धेनोक्तोऽयमेव धर्मः । क्षपणकः--अळे! सव्वण्णो बुद्धोत्ति कधं तुए णादम्। भिक्षुः-ननु रे तदागमैरेव प्रसिद्धो बुद्धः सर्वज्ञ इति।
क्षपणकः--अळे उज्झिअबुद्धअ! जइ तस्स भासिदेण सव्वण्णत्तं पडिवज्जेसि, ता अहं वि सव्वं जाणामि । तुमं पि पिदुपिदामहेहिं सत्तपुळिसेहिं मे दासो त्ति ।
भिक्षः- (सक्रोधम्) आः पाप ! पिशाच! मलपङ्कधर ! किं तावदहं दासः।
भण तावत् क्षणविनाशिना त्वया कस्य कृते व्रतं धार्यते ।
अरे मुक्तलज्ज! कस्मिन्नपि मन्वन्तरे कोऽपि मुक्तो भविष्यति । ततस्ते साम्प्रतं नष्टस्य कीदृशमुपकारं करिष्यति । अन्यदपि पृच्छामि । केन ते ईदृशो धर्मः सन्दिष्टः ।
अरे! सर्वज्ञो बुद्ध इति कथं त्वया ज्ञातम् ।
अरे उज्झितबुद्धिक ! यदि तस्य भाषितेन सर्वज्ञत्वं तस्य प्रतिपद्यसे, तस्मादहमपि सर्व जानामि । त्वमपि पितृपितामहैः सप्तपुरुषैर्मे दास इति ।
1. 'ऋजुबुद्धिक' ग. पाठ: