________________
९८
प्रबोधचन्द्रोदये सव्याख्ये भिक्षुः- (कर्णी पिधाय) बुद्ध ! बुद्ध ! अहो दारुणा धर्मचर्या ।
क्षपणकः--अळिहन्त ! अळिहन्त ! अहो घोळं पावं । कावाळिएण केण वि विप्पळडो एव एसो त्ति तक्केमि ।
कापालिकः -- (सक्रोधम्) आः पाप! पाखण्डापशद ! मुण्डितमुण्ड ! चण्डालवेष! केशलुश्चक! अरे! विप्रलम्भकः किल चतुर्दशभुवनोत्पत्तिस्थितिप्रलयप्रवर्तको वेदान्तासद्वान्तप्रसिद्धविभवो भगवान् भवानीपतिः। दर्शयामस्तर्हि धर्मस्यास्य महिमानम् । हरिहरसुरज्येष्ठश्रेष्ठान सुरानहमाहरे
वियति वहतां नक्षत्राणां रुणध्मि गतीरपि । सनगनगरीमम्भःपूर्णा विधाय महीमिमां ___ कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥१४॥
क्षपणकः-- अळे कावाळिअ! णं अदो जेव्व भणामि केण वि एन्दजाळिएण माअं दंसिअ विप्पळद्धोत्ति । ___ कापालिकः-- आः पाप! पुनरपि परमेश्वरमैन्द्रजालिकमित्यधिक्षिपसि । तन्न मर्षणीयमस्य दौरात्म्यम् । (खामाकृष्य) तदहमस्य,
एतत्करालकरवालनिकृत्तकण्ठ
नालोच्चलद्वहुलफेनिलबुबुदौधैः । क्षपणकः । अर्हन् ! अर्हन् ! अहो घोरं पापम् । कापालिकेन केनापि विप्रलब्ध एवैष इति तर्कयामि ।
___ अरे कापालिक! नन्वत एव भणामि केनाप्यैन्द्रजालिकेन मायां दर्शयित्वा विप्रलब्ध इति ।