________________
९२
प्रबोधचन्द्रोदये सव्याख्ये आवासो लयनं मनोहरमभिप्रायानुकूला वणिङ्
नायों वाञ्छितकालमिष्टमशनं शय्या मृदप्रस्तराः । श्रद्धापूर्वमुपासिकायुवतिभिः क्लुप्ताङ्गदानोत्सवक्रीडानन्दभरं व्रजन्ति विलसज्ज्योत्स्नाङ्कुरा रात्रयः॥९॥
करुणा-सहि! को एसो तरुणतरताळतळपळ्ळवो ळम्बन्तकसाअपिसङ्गचीरचीवरो सचूडमुण्डिअमुण्डवेसो इदो जेव्व अडिअच्छदि ।
शान्तिः -- सखि ! बुद्धागम एषः। भिक्षः-- (आकाशे) भो भो उपासकाः! भिक्षवश्व श्रूयतां भगवतः सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति ।) पश्याम्यहं दिव्येन चक्षुषा लोकानां सुगतिं दुर्गतिं च । क्षणिकाः सर्वे संस्काराः। नास्त्यात्मा स्थायी । तस्माद् भिक्षुषु
लयन हर्म्यतलम् । अभिप्रायानुकूला अभिमतभावसदृशाचरणा इत्यर्थः । शय्याः सोपबर्हणकशिपुप्रभृतयः । मृदुप्रस्तराः मृदुलतरास्तरणास्तीर्णाः । श्रद्धापूर्व प्रयोजनान्तरनिरपेक्षम् । उपासिकायुवतिभिरेतदर्शनदीक्षिताभिः । अङ्गदानोत्सवः परिरम्भमविभ्रमः । ज्योत्स्नाडुरं कौमुदीकन्द(मि? लि तम् | ज्योत्स्नोत्करा इति वा पाठः । तत्पक्षे ज्योत्स्नोत्करः कौमुदीकूटम् । लयनमाश्वासनमिति केषाञ्चिद् पक्षः। वपिनार्यों वेश्याः। उपासिकायुवतिभिः । उपासिका इति सिद्धान्तरुचयो दीक्षिता उच्यन्ते । उपासिकाश्च युवतयश्चेति कर्मधारयः ॥ ९॥
करुणा । सखि ! क एष तरुणतरतालतरुपल्लवो लम्बमानकषायपिशङ्गचीरचीवरः सचूडमुण्डितमुण्डवेष इत एवाभिगच्छति ।
सुगतिः विहिताचरणनिमित्ता । दुर्गतिरितराचरणात् । संस्काराः