________________
तृतीयोऽङ्कः ।
सैवाधुना विगलिता खिलवासनत्वाद् धीसन्ततिः स्फुरति निर्विषयोपरागा । ८ ॥
(परिक्रम्य पुनः सश्लाघम्) अहो साधुरयं सौगतधर्मो यत्र सौख्यं मोक्षश्च । तथाहि --
I
मोक्षव्यवस्थामाह – सैवेति । अधुनेति । चतुर्विधभावनापरिपाकानन्तरमिदानीमित्यर्थः । तत्र भावना नाम सर्वं क्षणिकं, सर्वं दुःखं, सर्व स्वलक्षणं, सर्व शून्यम् इत्येवमभ्यासरूपा । एवंविधभावनापरिपाकाच्च सैव सर्वभ्रमाधिष्ठानभूता स्वरसभङ्गुरविशुद्ध विज्ञानसन्ततिः स्फुरति अभिव्यज्यते । तत्र हेतुमाह - विगलिताखिलवासनत्वादिति । चतुर्विधभावनापरिपाकबलात् सुखादिवेदनालक्षणवासना विगलिता विभ्रष्टा यतो भवन्ति, अतो बन्धनिवृत्तिरिति भावः । विशुद्धधीसन्ततिस्फुरणमेव स्फोरयति — निर्विषयेति । नीलपीतादिलक्षणविषयोपरागरहितेत्यर्थः । उक्तं च --
-
“प्रत्यक्षसिद्धं बाह्यार्थं बुद्धिं वैभाषिकोऽब्रवीत् अध्याहारानुमेयार्थं बाह्यं सौत्रान्तिका विदुः ॥
बुद्धिमात्र वदत्यत्र योगाचारो न चापरः । नास्ति बुद्धिरपीत्याह वादिमाध्यमिकः किल ॥ न सन्नासन्न सदसन्न चोभाभ्यां विलक्षणः । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥ क्षणिकत्वमनैरात्म्यं सर्वेषामप्यस्ति (१) । आत्मावरणदेहस्य वस्त्राद्यावरणान्तिकम् ॥
९१
न ग्राह्यं यदि गृह्णन्ति तत्रापि ह्यनवस्थिति: ।"
इति क्षपणकस्य सिद्धान्त इति । बुद्धितत्त्वे स्थिता बौद्धा इत्यर्थः ॥ ८ ॥
१. ति' क. ग. पाठ:.
2