________________
प्रबोधचन्द्रोदये सव्याख्ये अत्थि पासण्डाणं वि तमसः सुदा सदति । तेण ऐसा तामसी सद्धा भविस्सदि ।
शान्तिः - (समाश्वस्य) सखि ! एवमेवैतत् । तथाहि
दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् ।
अम्बामनुसरत्येषा दुराशा न कथश्चन ॥ ७ ॥ तद् भवतु । तावत् सौगतालयेष्वप्यसावन्विष्यताम् ।
(शान्तिकरुणे परिक्रामतः ।) (ततः प्रविशति पुस्तकहस्तो भिक्षुरूपो बुद्धागमः ।) भिक्षुः - (विचिन्त्य) भो भोः उपासकाः! साक्षात् क्षणक्षयिण एव निरात्मकाव
यत्रार्पिता बहिरिव प्रतिमान्ति भावाः । भेतव्यम् । यतः श्रुतं मया अहिंसायाः सकाशादस्ति पाषण्डानामपि तमसः सुता श्रद्धेति । तेनैषा तामसी श्रद्धा भविष्यति ।
दुराचारेति । विरुद्धाचरणत्वादस्याः पाषण्डश्रद्धायाः न मन्मात्रा सह सादृश्यगन्धोऽपीत्यर्थः ॥ ७ ॥
बुद्धागमो नाम बौद्धसिद्धान्तः।
तदेव दर्शयति - साक्षादिति । साक्षात् क्षणक्षयिष्णुत्वं नाम भावानां तरसाभङ्गुरत्वमुच्यते । निरात्मका निःस्वरूपा इत्यर्थः । एवं बाद्यार्थवादिनां बौद्धानां राद्धान्तः । सम्प्रति बाह्यार्थस्यापि अमावं मन्वानस्य विज्ञानवादिनो बौद्धस्य मतं दर्शयति- यत्रार्पिता इत्लादिना । यत्र विज्ञाने अर्पिता आरोपिताः । बहिरिवतीवकाराद् बहिष्वप्रतिभानं प्रान्तमित्यर्थः। एवं तावत् संसारव्यवस्थासिद्धार्थसिद्धान्तोऽभिहितः। अधुना
१. 'चारत्वा' ख. पाठः. २. 'स्वरसभ' क. ग. पाठः, ३. 'स्वपि प्र' क. पाट:.