________________
४६
श्रीवल्लभोपाध्यायविरचितं
[ अष्टमः नाथः श्रीसुरताणश्च वरयात्रामिमावथ । आत्मनोऽकारयेतां नो वैराग्याधिकता यतः ॥७॥ अथ नाथोऽक्षिपत् पुत्रौ वर्णके सुदिने दिने । विचक्षण इवानन्दात् सुरेश्वरनरेश्वरौ ॥७॥ आवृतौ चारुकौसुंभवस्त्रैस्तौ बभतुस्तराम् । प्रभातोदितबालार्ककिरणोपमसद्युती ॥७॥ आनन्दात् गायतोलूलून स्त्रियो वर्षयतादृताः । मौक्तिकैरुपयच्छेते दीक्षाकन्यामिमौ यतः ॥ अनेके हर्षतो लोका इत्याचख्युर्विचक्षणाः। दक्षिणां ददतानन्दात् श्रुत्वा तत्कीर्तिमद्भुताम् ॥ काश्चित्सखीः प्रति प्रेम्णा काश्चिदाचख्युरित्यहो।
मुक्त्वा कार्याणि तौ द्रष्टुं त्वरध्वं चैत साम्पतम् ॥७९॥ चारुकर्पूरकस्तूरीकुङ्कमादिभिरद्भुताम् । स्फुरत्परिमलोपेतां कुरुध्वं शिष्टपिष्टिकाम् ॥८॥ दिव्यगन्धोदकैः पूर्व स्वपयन्तु ततः पुनः । उद्वर्तयन्तु तत्कायं यतध्वं चाक्षिदोषतः ॥ ८१ ॥ कर्पूरागरुकस्तुरीमिश्रकुङ्कुमचन्दनैः । अङ्गरागं तयोरङ्गे सरङ्गाः कुरुतादरात् ॥ ८२ ॥ ललाटे चारुचर्चिक्यं कुरुध्वं कुङ्कमादिभिः । अङ्गेऽलङ्कारसद्धारान् परिधापयतोत्सवात् ॥८॥ मल्लध्वं मूर्ध्नि माल्यानि गले मालम्बिकाः शुभाः। बहुधा च वराकारमङ्गुलीष्वङ्गुलीयकम् ॥ द्वयोर्मूनि निबधीत कोटोरं च शिरोमणिम् ।
हस्तेषु हस्तसूत्राणि, बाहुभूषाश्च बाहुषु ॥८५॥ सप्तभिः कुलकम् ॥ पुष्पितौ तावदीप्येतां तदानीं फलितौ भृशम् । मनोरथप्रदातारौ कल्पवृक्षाविवाङ्गिनौ ॥८६॥ अभात्तद्वन्द्वमश्वस्थं वरयात्रासु राजवत् । भूषणैर्मुकुटोत्तसैश्छत्रैश्च सह चामरैः ॥ ८७॥ गायना अग्रतो गायन् केप्यातोद्यान्यवादयन् । ननतुनर्तका हर्षादब्रुवन् कथकाः कथा:॥८॥ स्फूर्जन्नेजसमाजश्रीकरकाकाररूपताम् । बिभ्राणाः किमु देवेन्द्रास्तौ निरीक्षितुमागताः।।८९॥
७८-उलूलुमङ्गलध्वनिरिति हेमशेषः । उपाद् यमः स्त्रीकरणे इति उपपूर्वात् यमो विवाहेऽर्थे आत्मनेपदे वर्तमाने लटो द्विवचने उपयच्छेते इति रूपं । तयोः केशव-कर्मचन्द्रयोः कीर्तिस्तत्कीर्तिस्ताम् ।
८१-उद्वर्तयन्तु मलं निवर्तयन्तु ऊगटणउ करउ इति भाषा इत्यर्थः । ८३-चर्चिक्यं टीका आडिप्रमुखं । चर्चिक्यं समालभनं इति हैमः।
८४-मल्लध्वं धरत । मल्लध्वमिति क्रियापदं सर्वत्र योज्यं । गले प्रालम्बिकाः काण्ठला १ लहकउ २ टंकावलि ३ चम्पकली ४ इत्यादि लोकभाषाप्रसिद्धाः आभरणविशेषाः । प्रालम्बिका कता हेनेति । ऊर्मिका त्वगुलीयकमित्युभयं हैमः ।
८८-केपीति वाद्यवादकाः । कथा इति तयोरेव बाल्येऽपि दीक्षाग्रहणलक्षणा वार्ता इत्यर्थः।