________________
२०
श्रीवल्लभोपाध्यायविरचितं
चतुर्थः सर्गः
[ चतुर्थः
अष्टे जगतामिष्टः पट्ट एकोनषष्टके । विजयसेन आचार्यस्तस्य शिष्यशिरोमणिः ॥ १ ॥ अस्य शृणुत वृतान्तमुत्पन्यादिसमुद्भवम् । यादृगस्ति श्रुतं तादृगू वक्तुमिच्छामि तत् किल||२|| अस्त्यस्मिन् भरतक्षेत्रे, नडुलाई पुरी वरा । ( पाठान्तरेण - पुरी श्री नारदाभिधा ) तत्र कर्माभिधः श्रेष्ठी वसति व्यावहारिकः ॥ ३ ॥ तत्रान्येऽपि महीयांसो भूयांसो व्यवहारिणः । सन्ति तेष्वभवत्तस्य माहात्म्यमधिकं भुवि ॥ तत्रत्यश्च महीनाथस्तं सदाद्रियतेतराम् । वहन्ति च तदुक्ताज्ञां शिरस्युष्णीषवज्जनाः ॥५॥ दिव्या को डिमदेव्याख्या देव्याख्यातास्तिरूपतः । तस्य पत्नी सपत्नीव लक्ष्म्या लक्ष्मीसमन्विता ॥ कला रूपं गुणाः सर्वे यौवनं बहुसम्पदः । तं सदा सुखयामासुस्तस्या लाभेन पुण्यतः ॥७॥ जयसिंहाह्वयः पुत्रस्तयोरासीज्जयोदयः । जयाधिकशिरोरत्नं जयसिंहपराक्रमः ||८|| सर्वदा लोकसन्तापी बुधतेजोपहारकः । अस्थैर्यभाजनं नित्यं सूर्यस्तेन कथं समः ॥९॥ सदा दोषोदयः शुक्लैकपक्षः खण्डनान्वितः । कलङ्कालंकृताङ्गश्च सोमस्तेन कथं समः ॥१०॥ निर्जरैर्मथितो बद्धोऽम्भोमयो भूबहिकृतः । हृतरत्नः समुद्रोपि कथं तेन समो भवेत् ॥ ११ ॥ परोपकारहीन श्रीरदृश्यः कठिनाकृतिः । गुणैर्मेरुगिरिस्तेन सदृशो हि कथं भवेत् ॥ १२ ॥ आदित्यादपि तेजस्वी यचन्द्रादपि सौम्यवान् । सागरादपि गम्भीरो मेरोरपि गुणैर्गुरुः ॥१३॥ सर्वदा पितृपादाब्जसेवा हेवाभवन्मनाः । सद्गतौ बद्धकक्षो यो राजहंस इवाबभौ ॥ १४ ॥ - जयसिंहकुमारवर्णनम् । अस्मिन्नवसरे तस्य वैराग्यमभवद् हृदि । बाल्येऽपि वयसि स्पष्टं कस्माचिदपि कारणात् ॥ आधिव्याधिजरादुःखदौर्गत्यादिककारणम् । असार एष संसारो नात्राऽतः स्थितिरद्भुता ॥ अस्मिन् ये न्यवसन्पूर्वं निवसन्ति च ये पुनः । निवत्स्यन्ति च ये लोका दुःखिनो विषयैषिणः॥ दौर्गत्यादिकभाजस्ते भविष्यन्ति भवे भवे । तं त्यक्षन्ति भविष्यन्ति ते सिद्धा उत देवताः ॥ १८ ॥ अतो गृह्णाति चारित्रं तप्यैव तप उत्कटम् । लभै स्वर्गादिसौख्यानि तप्यैव जगतीतले ॥ १९ ॥
७-तं कर्माभिधम् तस्याः कोडिमदेव्याः ।
"
८ - जये सिंहस्य पराक्रम इव पराक्रमो यस्य स तथा । ९- तेन जयसिंहाभिषेन ।
१९- तपस्तपः कर्मकादिति कर्तरि आत्मने पदे क्ये च आशिषि लोट उत्तमपुरुषैकबचनं प्रथमोऽयम् । तfपंच ऐश्वर्ये दिवादिरात्मनेपदी, तपं धूपसन्तापे भ्वादिरित्यस्यैव ऐश्वर्येऽर्थे दिवादित्वं आत्मनेपदं वा विधीयते । अन्ये तु तपिं च ऐश्वर्ये इति धात्वन्तरं दिवादिमाहुः । अन्ये तु भ्वादेरेव ऐश्वर्ये सन्तापे च आत्मने पदं वेच्छन्ति । लोट उत्तमपुरुषकै वचनं द्वितीयोऽयम् ।
1