________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
एवं सूरिवरस्स हीरविजयो दिव्यावदातान् घनान्, चक्रे यान् जगतीतलेऽत्र विमलान् संस्तूयमानान् बुधैः । तान् शक्नोति न वाक्पतिः कथयितुं शक्तः कथं स्यां ततो, यं श्रीवासकुमार इत्यवितथं पर्यैक्षतोग्रक्रियम् ॥ १२२ ॥ इत्थं वासकुमार एष सुगुरोर्यांदृकू परीक्षां व्यधात्, श्रीश्रीवल्लभपाठकः समपत् तां पण्डितैः संस्तुताम् । श्रुत्वा तां च तथैव तत्र भविकाः सम्यकू यतध्वं सदा, सेवध्वं च विबुध्यतां च खलु तं त्यक्त्वा प्रमादं मुदा ॥ १२५ ॥
१९
इति श्री बृहत्खरतरगच्छीय श्रीजिनराजसूरि सन्तानीय पाठक श्रीज्ञानविमल शिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिसाहि श्रीअकब्बर प्रदत्त जगद्गुरु-बिरुद - धारक भट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिसादि श्री अकबर सभासंलब्ध दुर्वादिजयवादभट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचल सहस्र करानुकारि पातिसाहि श्रीयहांगीर प्रदत्तमहातपाविरुद्धारि भट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसूरि गुरुवर्णन परीक्षणो नाम तृतीयः सर्गः ॥ ३ ॥
१२२ - स हीरविजयः सूरिवरः एवं पूर्वोक्तप्रकारेण यान् घनान् दिव्यावदातान् अत्र जगततिले चक्रे तान् दिव्यावदातान् कथयितुं वाक्पतिबृहस्पतिर्न शक्नोति, ततस्तस्मात्कारणात् अहं कथं केन प्रकारेण शक्तः स्यां भवेयम् ? अपि तु न स्यामित्यर्थः । स कः ? यं श्री हरिविजयसूरि श्रीवासकुमार इति पूर्वोक्तप्रकारमवितथं सत्यं उप्रक्रियं पर्यैक्षत परीक्षितवान् । शेष स्पष्टम् ।
"
१२३ - उत्तरार्धस्य व्याख्या - तां परीक्षां श्रुत्वा तथैव तेन प्रकारेणैव श्रीवासकुमार - कृतसद्गुरुपरीक्षाप्रकारेणैव तत्र सद्गुरुपरीक्षायां भो भविकाः सम्यक् सदा यतध्वम् चोऽत्रान्वाचये तां सद्गुरुपरीक्षां विबुध्य ज्ञात्वा सद्गुरुं सेवध्वं । अत्रापि चोऽन्वाचये ।
1