________________
viama
भवति । ऋद्धस्य राज्ञः पुरुषः। गार्यस्यापत्यं गाायणः । 'यअिनः' (६-१-५४) इत्यायनण् । अधिकारसमुदायान्न भवति । परमगार्यस्यापत्यम् । पुत्रमिच्छति पुत्रकाम्यति । अधिकान्न भवति । महान्तं पुत्रमिच्छति । न्यूनाधिकव्यवच्छेदार्थ वचनम् । तदन्तत्वं च विशेषणमन्तः (७-४-११३ ) इत्येव सिद्धम् ॥ ११५॥ गौणो उयादिः॥७ । ४ । ११६ ।। डीमारभ्य व्यं यावत् उयादिः प्रत्ययः स गौण उपसर्जनं सन् प्रकृत्यादेः समुदायस्य विशेषणं भवति नोनाधिकस्य । कारीपगन्ध्यामतिक्रान्तः स बन्धुरस्य अतिकारीपगन्ध्यवन्धुः । अतिकौमुदगन्ध्यवन्धुः । अत्र येणाधिकस्याग्रहणात् 'बन्धौ बहुत्रीहौ' (२-४-८३) इति इच् न भवति । गौण इति किम् । अगीणोऽधिकस्यापि समुदायस्य विशेषणं भवति । परमकारीपगन्धीबन्धुः परमकौमुदगन्धीवन्धुः। पूर्वेणैव सिद्धेऽगौणस्याधिकपरिग्रहार्य वचनम् ॥ ११६ ॥ कृत्सगतिकारकस्यापि ॥ ७ । ४ । ११७ ॥ कृत्मत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य अपिशब्दात्केवलस्यापि विशेषणं भवति । यथेह समासो भवांत भस्मनिहुतम् प्रवाहेमूत्रितम् तथा उदकेविशीर्णम् अवतप्तेनकुलस्थितमिति सगतिकेन सकारकेण च तान्तेन तेन । (३-१-९२) इति समासः सिद्धो भवति । तथा व्यावक्रोशी व्यावहासी सांकौटिनं सांराविणमिति 'नित्यं बअिनोऽण् (७-३-५८) इति अण् सिद्धः। 'प्रत्ययः पकत्यादेः' (७-४-११५) इत्यताऽमाप्ते वचनम् ॥१२७ ॥ परः॥७।४।११८ ॥ यः प्रत्ययः स प्रकृतेः पर एव भवति । अजा । खवा । वृक्षः। वृक्षो । वृक्षाः। जुगुप्तते । मीमांसते । कार्यम् । गम्यम् । औपगवः ॥ ११८॥ *स्पर्धे ॥७।४। ११९ ॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यवलयोः एकत्र »अनेकत्र च उपनिपातः स्पर्धः तत्र यः सूत्रपाठे परः स विधिर्भवति । ' शसोऽता सश्च नः पुंसि' (१-४-४९ ) इत्यस्यावकाशो वृक्षान् मुनीन् । नपुंसकस्य शिः' (१-४-५५) इत्यस्य तु महान्ति यशांसि । इहोभयं पामोति वनानि मधूनि । तत्र परत्वाच्छिरेव भवति । अयं तावदेकस्य द्विकार्ययोगे स्पर्ध उक्तः । अनेकस्याप्यसंभवे सति भवति । ' ई पोमवरुणेऽने' [३-२-४२] इत्यस्यावकाशोऽनीवरुणौ । देवतानामात्वादौ' (७-४-२८) इति वृद्धेवकाश आमावैष्णवं हविः । इहोभयं प्रामोति । आग्निवारुणीमनड्वाहीमालभेत । परत्वात्तु वृद्धिर्भवति । अत्र ह्यनेरीत्वं वरुणशब्दस्य च वृद्धिरिति नैको द्विकार्ययुक्तः । असंभवस्त्वस्ति बुद्धौ सत्याम 'इद्धिमत्यविष्णौ ३-२-४३] इति अग्नेरीत्वापवाद इर्भवति। परस्परपतिबन्धेनाप्रवृत्ती पर्याय वा प्राप्ते वचनम् ॥११९॥ आसन्नः ७४१२०॥ इह आसनानासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एर विधिर्भवति । तत्र स्थानेन, दण्डानम्। क्षुपागम् । कण्ठययोरकारयोः कण्ठ्य एवाकारो दीर्थो भवति।अर्थेन,वातण्ययुवतिः।दारदवृन्दारिका । अत्र वतण्डीशब्दस्य दरच्छब्दस्य च 'पुंवत्कर्मधारये' [३-२-५७] इति पुंवद्भावे कर्तव्ये अर्थत आसन्नो वातण्ड्यभावो दारदभावश्च भवति। प्रमाणेन, अमुष्मै । अमूभ्याम् पादुवर्णोऽनु' (२-१-४७) इति माषिकस्य मात्रिको द्विमात्रस्य च दिमात्रः ॥ १२० ॥ संबन्धिनां संयन्धे ॥ ७ ॥ इति एकपदत्वाभावात् णत्व न स्यात् ॥-कृत्सग-|-भस्मनिहुतमित्यादिषु । तत्पुरुषे कृति ' इति सर्वत्रालुप् ॥-स्पर्धे॥-एकवेति । एकत्र एकस्मिन् स्थानिनि ॥-उपनिपातः प्रसङ्गो द्वयोर्विघ्योरिस्पर्थ. ॥-अनेकत्र चेति । अनेकस्मिन् स्थानिनि उपनिपातो द्वयोर्वियोरित्यर्थ. ॥-आस-॥-दारभावश्चेति । न तु वतण्ठदरगावः पुस्वं तु तस्यापि विद्यत एवं
wwwvorse