________________
बहुना डिः स्तम्वः वहुतीवणा । प्रत्युदाहरणं तु बहुनाडीकः कुत्रिन्दः बहुतन्त्री को नटः ॥ १८० ॥ निष्प्रवाणिः ॥ ७३ ॥ १८२ ॥ निष्प्रवाणिरिति कजभावो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका सा निर्गतास्मादिति निष्प्रवाणिः कम्बलः । निष्प्रवाणिः पटः । तत्रादचिरोद्धृत इत्यर्थः । 'गोवान्ते इस्त्र: ' - ( २ - ४ - ९५ ) इत्यादिना ह्रस्वः । ऊयते अस्यामिति चानिः प्रभृता वानिः मचाणिः । सा निर्गता तन्तुभ्योऽस्येति निष्प्रवाणिः सदश इत्येके । निर्गतः प्रवाण्या निष्यवाणिरिति तत्पुरुषेण सिद्धं बहुव्रीहौ कच् मा भूदिति वचनम् ॥ १८१ ॥ सुभ्वादिभ्यः ॥ ७ । ३ । १८२ ॥ सुभ्रु इत्येवमादिभ्यः कच् समासान्तो न भवति । भ्रूः । लेखाभ्रूः । शलाकाभ्रूः | कोमलोः । संहितोरूः । वरोरूः । पीवरोरूः । जातिवचनत्वादुङन्ता एते । एवं हि आमन्त्रये सौ इस्वो भवति । हे सुभ्रु | हे वरोरु | बहुवचनमाकृतिगणार्थम् । तेन करभोरूः संहितोरूः इत्यादयोऽपि भवन्ति ॥ १८२ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः ॥ ७ ॥ ३ ॥ अयमवनिपतीन्दो मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्लीं लुनातु ॥ कथमखिलमहीभृन्मौलिमाणिक्यभेदे घटयति परिमानं भग्नधारस्तवासिः ॥ १ ॥
1-सुवा ॥ सुनरिति शोभन श्रु भ्रमण यस्या भन्न ऊ ' शेपाद्वा' इति कचि प्राप्ते प्रतिषेध' । न च जडप्यानीते नित्यदिद्द्वारेण कप्प्रसङ्गः तत्रोत्तरपदस्थस्यैव नित्यदित्वग्रहणात् । ननु ' उतोऽप्राणिनश्च' इत्यत्र उद् इत्येव विधीयता कि दीर्घनिर्दिशेन । सत्यम् । ऊड् अकारान्त एव भवति न तद्विषये प्रत्ययान्तरम् । एवं तर्हि दीर्घनिर्देशादेव कच् न भविष्यति किं निषेधकरणेन । सत्यम् । शोभने ध्रुवौ यथा सा सुभूरिति शेषाद्वा' इति पक्षेऽपि कच न भवति इति प्रतिपेधकरण सार्थकम् । सुभु इस्येवमादिभ्य इति तु विवरण विशेषण्याख्यानानपेक्षया कृतम् ॥ इत्याचार्य० सप्तमस्वाध्यायस्य तृतीय पादः ॥
AMAV