________________
श्रीहमश०
॥ १७ ॥
विवक्षार्थः । तेन 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संसर्गेऽस्तिविवक्षायां प्रायो मरवादयो मताः ॥ १ ॥ भूत्रि, गोमान् यवमान् । निन्दायाम्, शङ्खोदकी, ककुदावर्ती । प्रशंसायाम्, रूपवती शीलवती कन्या । निययोगे, क्षीरिणो वृक्षाः कण्टकिनः । अतिशायने, उदरिणी कन्या । बलवान् मल्लः । संसर्गे, दण्डी छत्री । माथिकमेतद्भूमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते । व्याघ्रवान् पर्वतः । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । रूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपः । रूपस्पर्शवत्तेजः । स्पर्शवान् वायुः । यवमतीभिरद्भिर्यूपं प्रोशन्ति ॥ तथा मत्वर्थीयान्मत्वर्थीयः सरूपो न भवति । गात्र एषां सन्तीति गोमन्तः गोमन्तोऽत्र सन्तीति मतुर्न भवति । दण्ड एपामस्तीति दण्डिकाः दण्डिका अत्र सन्तीति इको न भवति । विरूपस्तु भवत्येव । दण्डिमती शाला । हस्तिमती उपत्यका । विरूपोपि मत्वर्थीयः समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिकाः दण्डिनः । दण्डिका अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भवतः ॥ ‘शैषिकाच्छैषिको नेष्टः सरूपः प्रत्ययः कचित् ॥ समानवृत्तौ मत्वर्थान्मत्वर्थीयोऽपि नेष्यते ॥ १ ॥ कचिदिति समानायामसमानायां च वृत्तौ । शालायां भवः शालीयः । ' दोरीय:' ( ६-२-३१ ) इतीये सति पुनः शालीये भवः शालीयस्यायं वेतीयो न भवति । विरूपस्तु भवति । अहिच्छत्रे भव आहिच्छत्रः तत्र भव आहिच्छत्रीयः ॥ तथा असंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्ति । अत्र बहुव्रीहिरेव भवति । वीरपुरुषको ग्रामः । संज्ञायास्तु भवत्येव । गौरखरवदरण्यम् । कृष्णसर्पवान् वल्मीकः । लोहितशालिमान् ग्रामः । कथंमैकगविकः सर्वधनीति । 'एकादेः कर्मधारयात् ' ( ७–२-५८ ) इत्याद्यारम्भसामर्थ्याद्भविष्यति । तथा गुणे गुणिनि च ये गुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति । शुक्लो वर्णोऽस्यास्तीति तिको रसोऽस्यास्तीति प्रत्ययमन्तरेणाप्येषां तदभिधाने सामर्थ्यात् । ये तु गुणमात्रे तेभ्यो भवत्येव । रूपवान् रमवान् शौक्ल्यवान् कार्ण्यवानिति ॥ १ ॥ आ यात् ॥ ७ । २ ।
"स०अ०
अपि भवस्थापलक्षणे ॥ - समानायां वृत्ताविति । अत्र एषामस्येति च उभयत्रापि पठया सद्भावात् समाना वृत्ति ॥ समानवृत्तावित्यादि । पुष्बदें यत्सरूप इति पद सदुत्तरार्द्धपि योग्य, सतोयमर्थन केवल सरूपो मस्वर्थीयो मत्वर्थीयात्समानवृत्ती न भवति मत्वर्थीयोऽपीत्यत्रापिशब्दाद्विरूपोऽपि इति । विपमवृत्ती सरूपो मत्वर्थीयो न भवतीति तु कारिकया न सजगृहे । अथवा पूर्वार्द्धासरूप इति नाविक्रियते कि तु मत्वर्थीयोपि नेप्यत इति सामान्येन भगनासरूपो विरूपत्र नेप्यत इत्येव व्याख्यायते । अपिशब्दस्तु शापिकापेक्षया समुच्चये व्याख्येय ॥ --! असंज्ञाभूतादिति । द्विविध धारय सज्ञाभूतोऽसाभूतव । तत्र सज्ञाभूतो य समुदायप्रसिद्ध्या प्रवर्तते यथा गौरखरादय । असज्ञाभूतो योऽवयवार्थयोगेन प्रवर्त्तते न पृथक्ममुदाय सिद्ध्या यथा वीरपुरुषादि ॥ कर्म्मधारयादित्यादि । उपलक्षणमिद यरकर्म्मधारयात्मत्वर्थीयो न भवतीति । यावता नतत्पुरुयादपि बहुब्राहिणैव भाव्यम् यथा अघोषा इति । अत्र हि न घोषोऽघोप. सोऽस्यास्ति इति कृते यहुमीहिरेव न मतु । यत्र त्वर्थविशेपो मन्वर्थीयेनाभिधीयते तत्र तत्पुरुषादप्यसौ भवति यथानरवन्ति चक्राणीति । अत्र हि नन्तपुरुपेण चक्रेश्वरकाभाव सामान्येनोच्यते । मत्वर्थीयेन स्वयन्त मूलतोऽप्यरकाभाव इति यावत् । तथा ययव्यसज्ञाभूतात्कर्म्मधारयान्मत्वर्थीयो न भवतीत्युक्तम् तथापि प्रायेण दृश्यते यथा कि सकिसलयच्छेदपाथेयवन्त इति । अत्र हि बिसकिसलयच्छेदाच ते पाथेय घेति कम्मधारये सति मतुरिति यज्ञमेन निश्रिये ॥ कथमिति । अन्नाप्यसंज्ञाभूत. कम्र्म्मधारयोऽस्तीत्यभिप्राय ॥ आ यात् ।
॥ १