________________
नस्तकारस्याक्रोशविषये द्वे रूपे न भवतः । 'अदीर्घाद्विरामैकव्यञ्जने' (१।३।३२) इति विकल्पे प्राप्त प्रतिषेधः । पुत्रादिनी खमसि पापे । पुत्रपुत्रादिनी भव । आदिन्पुत्रादिनीति किम् । पुत्रहती । पुत्रहती। पुत्रजग्धी । पुत्रजग्धी। अनाच्छादजात्यादेवा' (२।४। ४७) इति वा की। आक्रोश इति किम् । अपुत्रादिनी शिशुमारी । पुत्रादिनीति वा । पुत्रपुत्रादिनी नागी । पुत्रपुत्रादिनोति वा ॥ ३८ ॥ *नां धडवर्गेऽन्त्योऽपदान्ते । १॥३॥ ३९॥ अन्विति वर्तते । अपदान्ते वर्तमानानां मकारनकाराणा धुसंज्ञके वर्गे परे प्रत्यासत्तेनिमित्तवर्गस्यैवान्योऽनु भवति । म गन्ता । गन्तुम् । शङ्किता । शङ्कितुम् । अञ्चिता। अश्चितम् । कुण्ठिता।कुण्ठितुम् । नन्दिता । नन्दितुम् । कम्पिता। कम्पितुम् । नामिति बहुवचनं वर्णान्तरवाधनार्थम् । तेन कुर्वन्ति, कृपन्ति, विसम्भ., संरम्भः, इत्यत्र नकारस्य णत्वं बाधित्वा अनेन वर्गान्त्य एव भवति । क्रान्त्वा, भ्रान्त्वा, इसत्रापि नकारे कृते णत्ववाधनार्थ पुनर्नकारः । धुडिति किम् । आइन्महे । प्रहन्मः । धुड्वर्ग इति किम् । गम्यते । हन्यते । अपदान्त इति किम् । भवान् करोति । अन्वित्यधिकारात् व्यता, व्यक्तमित्यत्राओर्गत्वे कत्वे च कृते पश्चात्कवर्गान्त्यः । अन्यथा चवर्गान्त्यः स्यात् ॥ ३९ ॥ *शिडहेऽनस्वारः । ११३ ॥ ४०॥ अपदान्ते वर्तमानानाम्नां स्थाने शिटि हकारे च परे अनुस्वार आदेशोऽनु भवति । म् , पुंसि ।गं. स्यते । , दंशः। सुदंशि कुलानि । वपूंषि । धषि । यशांसि । पयांसि । गुडलिंहि । स्वनवाहि कुलानि । नामिति वहुवचनावृहणमित्यत्र णत्वं दंश इत्यादी अत्वं च बाधित्वाऽनेनानुस्वार एव भवति । एवं सीपि । सुर्देशि । शिट इति किम् । गम्यते । हन्यते । अपदान्त इत्येव । भवान्साधुः । श्रेयान्हेतुः । अन्वित्येव । पिण्डि। शिण्डि। अत्र पिशिषोहौं तस्य धित्वे षस्य डत्वे च शिडभावान्कारस्यानुस्वारो न भवति ॥४०॥ *रो रेलग्दीर्घश्चादिदतः। १।३।४१॥ अपदान्ते
RE गन्तस्य । एष वर्ण्यत इत्यपि । तीवत् पुसोऽपि पुत्रादनाक्रोशे तत्रापि प्रतिषेधो भवत्येव । पुत्रादी भवेति । अभीक्ष्ण पुत्रानत्सौति 'मताभीक्ष्ण्ये ' इति णिन् ॥-पुत्रादिनी शिशुमारीति। * अध्यारोपेण हि निन्दाक्रोश । तत्त्वाख्याने तु तदसभव इति प्रतिषेधाभावात् 'अदीर्घात् '-इति द्वित्व भवत्येव ॥-नागीति । 'जातेस्यान्त'-इति डी ॥-नां धुट-॥ यद्यत्र वर्गप्रहण न स्यात्
तदा गन्तेत्यत्र थकार. स्यात् । तस्यापि तकारापेक्षयाऽन्त्यत्वात् इत्यव्यवस्थानिरासाय वर्गग्रहणमिति ॥-निमित्तवर्गस्यैवेति । मकारनकारापेक्षयाऽन्यस्य वर्णस्यान्त्यस्याभावात् इति ॥-बहुवचनमिकति । अवमर्थ । वर्णग्रहणे जातिग्रहणमिति जातिनिर्देश प्राप्ते पहुवचन व्यक्तिनिर्देशार्थम् तेन यावान् मकारो नकारचापदान्तस्तत्र सर्वत्र व्यक्त्यपेक्षया यर्य मा भूदिति प्रवर्तमानोऽन्त्य कार्यान्तरपाधासाये प्रभवति ॥-गम्यते । हन्यते इत्यत्र मनोनिमित्तयकारस्यान्त्यो र स्यात् ॥-शिड़हे-॥ ननु पिण्डिा इत्यादी वस्यालुक' स्थानिवत्त्वादकारेण पस्प व्यवधानात अनुस्वारो न प्रामीति किमन्वित्या
अयणेन । नैवम् । 'न सधि'-इति सधिविधौ स्थानित्वनिषेधात् ॥ ननु हस्य शिट्सज्ञा कृत्वा शिट्यनुस्वार इत्येवोच्यताम् । सल्पम् । यदि हस्य शिट्सशा कृत्वा इह हप्रहण न क्रियते तदा ओजडदित्यत्र 'अघोषे शिटः' इति इलोपेऽनिष्ट रूप स्यादिति ॥-रो रे-॥ नन्वपदान्त इत्याधिकारात् अजर्घा अपास्पा- अचोकू अचाखा अचाका अपापा इत्यादिवेव प्राप्नोति न तु स्वाराज्यमित्यादाविति । नैवम् । अदिद्युत इति इग्रहणादपदान्त इति नानुवर्तते । यत इकारात्परस्य रेफस्य रेफेऽपदान्ते सभवो नास्तीत । भिन्नस्थानिनिमित्तभणनादा । किं पुनरिद सानुपन्धस्य कार्यिणो रेफस्य ग्रहण